अचोदिते—पूषादौ, दर्शपूर्णमासयोर्थन्मन्त्रा न विनियुज्यन्ते युक्तमेव तत् । संस्कारस्य संस्कार्यपरत्वाल्लिङ्गेन च प्रकरणबाधात् । कथं पुनरेषामुत्कृष्टानां वैदिकैः कर्मभिर्योगः । कथं वा क्रत्वङ्गसामान्यविनियोगमन्तरेण लिङ्गं देवतायामेव केवलायां विनियोजकमिति । तदुच्यते ।

यागानुमन्त्रणानीति समाख्या क्रतुयोजिनी ।
तस्माच्छक्त्यनुरोधेन प्राप्तिस्तद्देवते क्रतौ ॥

यागानुमन्त्रणसमाख्या ह्येषां यागसंबन्धादृतेऽनुपपद्यमाना यागसामान्याङ्गत्वं गमयति ।

अतो विशेषचिन्तायामशक्येष्वनियोजनात् ।
शक्यार्थविनियोगाय लिङ्गव्यापारसंभवः ॥ २ ॥