800 सत्यं यदि देवताव्यापारः पातृत्वमिह विशेषणं स्यात्तत ऐन्द्राग्नोऽपि गृह्येत । न त्वस्माकं देवता पिबति । किं तर्हि । संकल्पविषयत्वेनैवोपयुज्यते । न च मिश्रसंकल्पेऽन्यतरव्यपदेशः संभवति । तद्धितवत्समासस्य सापेक्षेष्वप्रवृत्तेः । तस्मादाग्नेयचतुर्धाकरणवदेव केवलेन्द्रदेवत्यविषयत्वान्नैव व्यपदेश उभयदेवत्यः संभवतीति मन्त्रनिवृत्तिः । अनेनैव च विशेषेणास्यापुनरुक्तत्वम् । यत्पूर्वपक्षवादी न देवतात्वमिह विशेषणं, किं तर्हि, संप्रदानगतं पातृत्वं, तच्च प्रत्येकमप्यस्तीति मन्यते । सिद्धान्तवादी तु मुख्यपातृत्वासंभवाद्देवतात्वमेवानेन लक्ष्यत इत्यापादयति । यद्यपि च मुख्यं पातृत्वं देवतायां भवेत्तथाऽपि द्रव्यस्य तत्पीतत्वमशक्यं वक्तुम् । कथम् ।

यो हि तावद्धुतः सोमः स नैवमभिधीयते ।
न च तस्येन्द्रपीतत्वादहुतस्येन्द्रपीतता ॥

चमसस्थो हीन्द्रपीतत्वेन व्यपदिश्यते । न चासाविन्द्रपीतः हुतविषयत्वादिन्द्रपीतव्यपदेशस्य । तस्मादवश्यविद्यमानधर्माभिधानादिन्द्राय संकल्पित इन्द्रपीतः प्रत्येतव्यः । ततश्चाऽऽपन्नं देवतात्वमेवोपलक्षणमिति । न च हुतसोमगतं पीतत्वं तत्रोपचरितुं शक्यम् । आत्मधर्मेणैव संकल्पेनाभिधानोपपत्तेः । एकदेशेऽपि हि हूयमाने सर्वमिदं द्रव्यं देवतोद्देशेन त्यज्यमानं यागं साधयति । अतोऽसौ निर्वपतेरिव यजिरेवात्र पिबतेरर्थः । तेनैन्द्रयागसाधनादिन्द्रपीतप्रत्ययसामर्थ्यान्मन्त्रनिवृत्तिः ॥ ४१ ॥

इति ऐन्द्राग्नभक्षस्यामन्त्रकत्वाधिकरणम् ॥ १७ ॥

गायत्रच्छन्दस इत्यादेर्नानाछन्दस्के विनियोगाधिकरणम्