इन्द्रपीताधिकरणम्

स्थितादुत्तरम् । अनिन्द्रपीतेष्वप्यविकृत एव मन्त्रः प्रयोक्तव्यो नामन्त्रकं भक्षणम् । कुतः ।

802
इन्द्रेण यस्मिन्सवने पीतः सोमो निरूप्यते ।
तस्य योऽन्योऽपि संबन्धी स एवं व्यपदिश्यते ॥

नैवमभिसंबन्धः इन्द्रपीतस्य सोमस्येति । किं तर्हि । इन्द्रपीतस्य प्रातःसवनस्य यः संबन्धीति । न च प्रातःसवनशब्दः सोमसमानाधिकरणः, क्रतुभागवचनत्वात् । तद्गतसोमवाचित्वे च प्रातःसवनीयस्येति प्रसङ्गात् । अतः सवनस्येन्द्रपीतस्येति च समानाधिकरणे सोमसंबन्धव्यतिरेकजनिते षष्ठ्यौ । सोमस्येति तु व्यधिकरणा सोमविषयाऽवयवव्यतिरेकनिमित्ता षष्ठी । तेन पदान्तरसामर्थ्यात्संयोगप्रकरणाविशेषाच्च प्रयोक्तव्य एव एष मन्त्रः । कस्मादेवं गृ770ह्यत इति चेत् । 771सोमे भाक्तत्वप्रसङ्गात् । पूर्वसंकल्पितो हि समुदाय इन्द्रपीतो मुख्यस्तस्य चायमवयव उपचारादेवमभिधीयते । न चैतद्युक्तम् । तस्मात्सर्वसोमानामिन्द्रपीतसवनसंबधित्वान्मन्त्रवद्भक्षणमिति सिद्धमिति ॥ ४४ ॥

  1. प्रायश्चित्ताम्नानादिति—‘वि वा एष इन्द्रियेण वीर्येणर्ष्यते यः सोमं वमिति । तस्मात्सोमेन्द्रं चरुं निर्वपेत्सोमवामिनः’ इत्यादिनेति शेषः ।

  2. सोम इति—इन्द्रपीतशब्देनाभिधीयमान इत्यर्थः । अनेन च ‘भक्त्या ह्यपीतः’ इति भाष्यं व्याख्यातं वेदितव्यम् ।