अध्यायः 053
					 नलदमयन्तीसंवाद ॥ 1 ॥ नलेनेन्द्रादीन्प्रति दमयन्तीवचननिवेदनम् ॥ 2 ॥ 
					
					
						सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।
						प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥
					 
					
						अहं चैव हि यच्चान्यन्ममास्ति वसु किंचना ।
						तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर ॥
					 
					
						हंसानां वचनं यत्तु तन्मां दहति पार्थिव ।
						त्वत्कृते हि मया वीर राजानः सन्निपातिताः ॥
					 
					
						यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।
						विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥
					 
					
						एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह ।
						तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥
					 
					
						येषामहं लोककृतामीश्वराणां महात्मनाम् ।
						न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥
					 
					
						विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युच्छति ।
						त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥
					 
					
						विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा ।
						भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै ॥
					 
					
						य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसते पुनः ।
						हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥
					 
					
						यस् दण्डभयात्सर्वे भूतग्रामाः समागताः ।
						धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥
					 
					
						धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् ।
						महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥
					 
					
						क्रियतामविशङ्केन मनसा यदि मन्यसे ।
						वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥
					 
					
						नैषधेनैवमुक्ता सा दमयन्ती बचोऽब्रवीत् ।
						समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥
					 
					
						देवेभ्योऽहं नमस्कृत् यसर्वेभ्यः पृथिवीपते ।
						वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते ॥
					 
					
						तामुवाच ततो राजा वेषमानां कृताञ्जलिम् ।
						दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितं ॥
					 
					
						कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः ।
						परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥
					 
					
						एष धर्मो यदि स्वार्थो ममापि भविता ततः ।
						एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥
					 
					
						ततो बाष्पाकुलांवाचं दमयन्ती शुचिस्मिता ।
						प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥
					 
					
						अस्त्युपायो मया दृष्टो निरपायो नरेश्वर ।
						येन दोषो न भविता तव राजन्कथंचन ॥
					 
					
						त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः ।
						आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥
					 
					
						ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर ।
						वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥
					 
					
						एवमुक्तस्तु वैदर्भ्या नलो राजा विशंपते ।
						आजगाम पुनस्तत्र यत्र देवाः समागताः ॥
					 
					
						तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः ।
						दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥
					 
					
						कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता ।
						किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥
						नल उवाच । 
					 
					
						भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् ।
						प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥
					 
					
						प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः ।
						ऋते तां पार्तिवसुतां भवतामेव तेजसा ॥
					 
					
						सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः ।
						विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः ॥
					 
					
						वर्ण्यमानेषु च मया भवत्सु रुचिराननां ।
						मामेव गतसंकल्पा वृणीते सा सुरोत्तमाः ॥
					 
					
						अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः ।
						त्वया सह नरव्याघ्र मम यत्रस्वयंवरः ॥
					 
					
						तेषामहं संनिधौ त्वां वरयिष्यामि नैषध ।
						एवं तव महाबाहो दोषो न भवितेति ह ॥
					 
					
						एतावदेव विबुधा यथावृत्तमुपाहृतम् ।
							मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥ 
					 3-53-1 यथाश्रद्धं देवेभ्यो नमस्कृत् प्रणयस्वेति संबन्धः ।
						प्रणयस्व परिणयस्व । मामिति शेषः ॥ 3-53-2 विस्रब्धं सविश्वासं यथास्यात्तथा
						प्रणयं परिणयनं विवाहम् ॥ 3-53-3 सन्निपातिताः मेलिताः ॥ 3-53-4
						मृत्युकारणादिति क. ध. पाठः ॥ 3-53-25 महाकक्ष्यं महान्तं राजद्वारप्रदेशम् ॥ 3-53-31 अतःपरं प्रमाणं तु भवन्तोऽमरसत्तमा इति. क. पाठः ॥