अध्यायः 260
					 कदाचन काम्यकवचवासिनः पाण्डवानुपागतेन व्यासेन युधिष्ठिरंप्रति
						दानप्रशंसनम् ॥ 1 ॥ 
					
					
						वने निवसतां तेषां पाण्डवानां महात्मनाम् ।
						वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥
					 
					
						फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।
						प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः ॥
					 
					
						युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।
						चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥
					 
					
						न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।
						दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥
					 
					
						संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः ।
						निःश्वासपरमो दीनो दध्रे कोपविषं महत् ॥
					 
					
						अर्जुनोयमजौ चोभौ द्रौपदी च यशस्विनी ।
						स च भीमो महातेजाः सर्वेषामुत्तमो बले ॥
					 
					
						`चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा' ।
						युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम् ॥
					 
					
						अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः ।
						वपुरन्यदिवाकार्पुरुत्साहामर्षचेष्टितैः ॥
					 
					
						कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः ।
						आजगाम महायोगी पाण्डवानवलोककः ॥
					 
					
						तमागतमभिप्रेक्ष्यकुन्तीपुत्रो युधिष्ठिरः ।
						प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥
					 
					
						तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः ।
						तोषयामास शौचेन व्यासं पाण्डवनन्दनः ॥
					 
					
						तानवेक्ष्यकृशान्पौत्रान्वने वन्येन जीवतः ।
						महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥
					 
					
						युधिष्ठिर महाबाहो शृणु धर्मभृतांवर ।
							नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम् ।
						
						सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ॥
						
					 
					
						नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ।
						प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ॥
					 
					
						उदयास्तमयज्ञो हि न हृष्यति न शोचति ।
						सुखमापतितं विन्दन्दुःखमापतितं सहन् ॥
					 
					
						कालप्राप्तमुपासीत सस्यानामिव कर्षकः ।
						तपसो हि परं नास्ति तपसा विन्दते महत् ॥
					 
					
						नासाध्यं तपसः किंचिदिति बुध्यस् भारत ।
						सत्यमार्जवमक्रोधः संविभागो दमः शमः ॥
					 
					
						अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः ।
						साधनानि महाराज नराणां पुण्यकर्मणाम् ॥
					 
					
						अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
						कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते अनाः ॥
					 
					
						इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
							`मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते' ।
						
						तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥
						
					 
					
						यथाशक्ति प्रयच्छेत संपूज्याभिप्रणम्य च ।
						काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः ॥
					 
					
						सत्यवादी लभेतायुरनायासमथार्जवम् ।
						अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥
					 
					
						दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति ।
						न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥
					 
					
						संविभक्ता च दाता च भोगवान्सुखवान्नरः ।
						भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥
					 
					
						मान्यं मानयिता जन्म कुले महति विन्दति ।
							`विन्दते सुखमत्यर्थमिह लोके परत्र च' ।
						
						व्यसनैर्न तुसंयोगं प्राप्नोति विजितेन्द्रियः ॥
						
					 
					
						शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा ।
						प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥
						युधिष्ठिर उवाच । 
					 
					
						भगवन्दानधर्माणआं तपसो वा महामुने ।
						किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥
						व्यास उवाच । 
					 
					
						दानान्न दुष्करं तात पृथिव्यामस्ति किंचन ।
						अर्थे च महती तृष्णा स च दुःखेन लभ्यते ॥
					 
					
						`राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्' ।
							परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरम् ।
						
						तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा ॥
						
					 
					
						कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।
						पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥
					 
					
						तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः ।
						सुदुष्करतरं दानं तस्माद्दानं मतं मम ॥
					 
					
						विसेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।
						पात्रे काले च देशे च प्रयतः प्रतिपादयेत् ॥
					 
					
						अन्यायात्समुपात्तेन दानधर्मौ धनन यः ।
						कुरुते न स कर्तारं त्रायते महतो भयात् ॥
					 
					
						पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर ।
						मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥
					 
					
						`श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी ।'
							सवित्री प्रसवित्री च संसारार्णवतारिणी ॥
						
					 
					
						श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः ।
						सधना अपिराजानो निःश्रद्धा नरकं गताः ॥
					 
					
						निष्किंचनाश्च मुनयः श्रद्धावन्तो दिवं गताः ।
							देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः ।
						
						व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान्' ॥
						
					 
					
						अत्राप्युदाहरन्तीमतिहासं पुरातनम् ।
							व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि
						षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥ 
					 3-260-2 ध्यान्तः ध्यायन्तः ॥ 3-260-4 द्यूतोद्भवस्
						द्यूतहेतोः शकुन्यादेः ॥ 3-260-9 अवलोककोऽवलोकितुकामः ॥ 3-260-14 नह्यनन्तं
						सुखं कश्चित् इति झ. पाठः ॥ 3-260-16 तपसा ज्ञानेन । महद्ब्रह्म ॥ 3-260-21
						काले दानकाले ॥ 3-260-22 अनायासं क्लेशपरिहारम् । निर्वृत्तिं सुखम् । परां
						मोक्षाख्याम् ॥ 3-260-24 संविभक्ता अन्नादेर्विभागकर्ता । दाता धनादेः ॥ 3-260-26 शुभमेवानुशेते शुभपक्षपातिनी बुद्धिर्यस्य । कालधर्मेण मरणेन ॥ 3-260-27 दानजानां धर्माणाम् । तपसः कायक्लेशकृतस्य कृच्छादेः । एत रयोर्मध्ये
						प्रेत्य मृत्वा किं बहुगुणं किं परलोके श्रेष्ठमित्यर्थः ॥ 3-260-31
						दुःखार्जितस्य धनस्येति शेषः । मतं श्रेष्ठत्वेन ॥ 3-260-38 द्रोणो
						मानविशेषस्तन्मिता व्रीहयस्तेषां दानात् ॥