अध्यायः 294
					 मार्कण्डेयेन युधिष्ठिरंप्रति सावित्र्युपाख्यानकथनारम्भः ॥ 1 ॥
						अस्वपतिनाम्नो मद्रराजस्य
						स्वीयव्रतचर्यासंतुष्टसावित्रीदेवीप्रसादात्सावित्रीनामककन्याजननम् ॥ 2 ॥
						यौवनस्ययातया पित्राज्ञया वृद्दामात्यैः सह राजर्षीणामाश्रमेषु
						स्वोधितवरान्वेषणम् ॥ 3 ॥ 
					
					
						नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने ।
						हरणं चापि राज्यस् यथेमां द्रुपदात्मजाम् ॥
					 
					
						द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् ।
						जयद्रथेन चपुनर्वनाच्चापि हृता बलात् ॥
					 
					
						अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाऽपिवा श्रुता ।
						पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥
						मार्कण्डेय उवाच । 
					 
					
						शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।
						सर्वमेतद्यथाप्राप्तं सावित्र्या राजकन्यया ॥
					 
					
						आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।
						ब्रह्मण्यश्चमहात्मा च सत्यसन्धो जितेन्द्रियः ॥
					 
					
						यज्वा दानपतिर्दक्षः पौरजानपदप्रियः ।
						पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥
					 
					
						क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः ।
						अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥
					 
					
						अपत्योत्पादनार्थं च तीव्रं नियममास्थितः ।
						काले परिमिताहारो ब्रहमचारी जितेन्द्रियः ॥
					 
					
						हुत्वा शतसहस्रं स सावित्र्या राजसत्तम ।
						षष्ठेषष्ठे तदाकाले बभूव मितमोजनः ॥
					 
					
						एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु ।
						पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥
					 
					
						रूपिणी तु तदा राजन्दर्शयामास तं नृपम् ।
						अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता ॥
					 
					
						उवाच चैनं वरदा वचनं पार्थिवं तदा ।
						सा तमश्वपतिं राजन्सावित्री नियमे स्थितम् ॥
					 
					
						ब्रह्मचर्येण शुद्धेन दमेन नियमेन रच ।
						सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिवाः ॥
					 
					
						वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम् ।
						न प्रामादश्च धर्मेषु कर्तव्यस्ते कथंचन ॥
						अश्वपतिरुवाच । 
					 
					
						अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया ।
						पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥
					 
					
						तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम् ।
						संतां परमो धर्म इत्याहुर्मां द्विजातयः ॥
						सावित्र्युवाच । 
					 
					
						पूर्वमेव मया राजन्नभिप्रायमिमं तव ।
						ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ॥
					 
					
						प्रसादाच्चैव तस्मात्ते स्वयं विहितवत्यहम् ।
						कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥
					 
					
						उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन ।
						पितामहनियोगेन तुष्टा ह्येतद्ब्रवीमि ते ॥
					 
					
						स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः ।
						प्रसादयामास पुनः क्षिप्रमेतद्भविष्यति ॥
					 
					
						अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः ।
						स्वराज्ये चावसद्बीरः प्रजा धर्मेण पालयन् ॥
					 
					
						कस्मिंश्चित्तु गते काले स राजा नियतब्रतः ।
						ज्येष्ठायां धर्मचारिण्यां महिष्यां कगर्भमादधे ॥
					 
					
						राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ ।
						व्यर्धतं तदा शुक्ले तारापतिरिवाम्बरे ॥
					 
					
						प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् ।
							क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः ॥ 3-294-25aसावित्र्या प्रीतया दत्ता साव्त्र्या द्दुतया ह्यपि ।
							सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥
						
					 
					
						सा विग्रहवतीव श्रीव्यवर्धत नृपात्मजा ।
						कालेन चापि सा कन्या यौवनस्ता बभूव ह ॥
					 
					
						तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।
						प्राप्तेयं रदेवकन्येति दृष्ट्वा संमेनिरे जनाः ॥
					 
					
						तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा ।
						न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥
					 
					
						अथोपोष्य शिरःस्नाता देवतामभिगम्य सा ।
						हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥
					 
					
						ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः ।
						पितुः समीपमगमद्देवी श्रीरिव रूपिणी ॥
					 
					
						साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च ।
						कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता ॥
					 
					
						यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् ।
						अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥
						राजोवाच । 
					 
					
						पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् ।
						स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥
					 
					
						प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम ।
						विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥
					 
					
						श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः ।
						तथा त्वमपिकल्याणि गदतो मे वचः शृणु ॥
					 
					
						अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।
						मृते पितरि पुत्रश्च वाच्यो मातुररक्षिता ॥
					 
					
						इदं मे वचनं क्षुत्वा भर्तुरन्वेषणे न्वर ।
						देवतानां यथा याच्यो न भवेयं तथा कुरु ॥
					 
					
						एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः ।
						व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ॥
					 
					
						साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी ।
						पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥
					 
					
						सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता ।
						तपोवनानिरम्याणि राजर्षीणां जगाम ह ॥
					 
					
						मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम् ।
						वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥
					 
					
						एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा ।
							कुर्वी द्विजमुख्यानां तंतं देशं जगाम ह ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि
						चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥ 294 ॥ 
					 3-294-9 सावित्र्या सावित्री सवितृकन्या तद्दैवत्यवा ऋचा रसा
						च । सोर्मा वधूयुरभवदित्यादिः । षष्ठेकाले अष्टधाविभक्तस्याह्नः षष्ठेशे ॥ 3-294-19 उत्तरं पुत्रार्थं प्रार्थनावचनम् ॥ 3-294-20 प्रतिज्ञायाज्ञोकृत्य ॥ 3-294-23 मानव्या मनुपुत्र्याः ॥ 3-294-28 प्रतिवारितोऽभिभूतः ॥ 3-294-30
						सुमनस इष्टदेवतायाः । शोषाः प्रसादपूर्वकं दत्तानि माल्यानि ॥ 3-294-32
						अयाच्यमानां तु नरैरिति ध. पाठः ॥ 3-294-34 प्रार्थित इच्छितः ॥ 3-294-36
						वाच्यो निन्द्यः । अनुपयन् ऋतावगच्छन ॥ 3-294-38 अनुयात्रां यात्रोपकरणं
						वाहनादि ॥