अध्यायः 027
					 भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह
						चरमविमानसमारोपणेन श्मशानप्रापणम् ॥ 1 ॥
						द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानां पञ्चाधिकशतस्य
						पञ्चताप्रापणम् ॥ 2 ॥ भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन
						स्वावासप्रेपणपूर्वकं महानसप्रवेशः ॥ 3 ॥ 
					
					
						तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः ।
							रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ॥ 1 ।
						
					 
					
						सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।
						तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥ 2 ॥
					 
					
						पोथितं भीमसेनेन महेन्द्रेणेव दानवम् ।
						कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ॥ 3 ॥
					 
					
						गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् ।
						संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ 4 ॥
					 
					
						अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः ।
						अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ 5 ॥
					 
					
						समागतेषु सूतेषु तानुवाचोपकीचकः ।
						हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ॥ 6 ॥
					 
					
						हन्यतां शीघ्रमसती यत्कृते कीचको हतः ।
						अथवा नैव हन्तव्या दह्यतां कामिना सह ॥ 7 ॥
					 
					
						मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ।
						इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ॥ 8 ॥
					 
					
						यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति ।
							सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् ।
						
						हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ॥ 9 ॥
						
						वैशंपायन उवाच ॥ 
					 
					
						ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन् ।
						कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ॥ 10 ॥
					 
					
						सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया ।
						मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ॥ 11 ॥
					 
					
						पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत ।
						सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ॥ 12 ॥
					 
					
						ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः ।
						रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ॥ 13 ॥
					 
					
						आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च ।
						ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ॥ 14 ॥
					 
					
						यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु ।
						अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ॥ 15 ॥
					 
					
						सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च ।
							अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा ।
						
						विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ॥ 16 ॥
						
					 
					
						ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता ।
						प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 17 ॥
					 
					
						मृतेन सह बद्धाङ्गी निराशा जीविते तदा ।
						श्मशानाभिमुखं नीता करेणुरिव रौति सा ॥ 18 ॥
						द्रौपद्युवाच । 
					 
					
						जयो जयेशो विजयो जयत्सेनो जयद्बलः ।
						त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 19 ॥
					 
					
						येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् ।
						ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 20 ॥
					 
					
						येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।
						अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ॥ 21 ॥
					 
					
						रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् ।
						ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ॥ 22 ॥
					 
					
						येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः ।
						राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ॥ 23 ॥
					 
					
						इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः ।
						श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ॥ 24 ॥
						भीम उवाच । 
					 
					
						अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः ।
						तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ॥ 25 ॥
						वैशंपायन उवाच । 
					 
					
						इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ॥ 26 ॥
						
					 
					
						ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च ।
						अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ 27 ॥
					 
					
						स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् ।
						श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ 28 ॥
					 
					
						स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् ।
						जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ॥ 29 ॥
					 
					
						चितासमीपं गत्वा स तत्रापश्यन्महाबलः ।
						तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ॥ 30 ॥
					 
					
						तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च ।
						वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ॥ 31 ॥
					 
					
						ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ॥ 32 ॥
						
					 
					
						तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः ।
						प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः ॥ 33 ॥
					 
					
						ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।
						भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ॥ 34 ॥
					 
					
						तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।
						वित्रेसुश्च तदा सूता विपादभयपीडिताः ॥ 35 ॥
					 
					
						तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः ।
							दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः ।
						
						परस्परमथोचुस्ते विषादभयमोहिताः ॥ 36 ॥
						
					 
					
						गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् ।
							प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः ।
						
						सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ॥ 37 ॥
						
						वैशंपायन उवाच । 
					 
					
						ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् ।
						विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ॥ 38 ॥
					 
					
						द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव ।
						अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ॥ 39 ॥
					 
					
						ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ॥ 40 ॥
						
					 
					
						दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव ।
							एकेनैव प्रहारेण दश सप्त च विंशतिम् ।
						
						अष्टादश च पञ्चाशञ्जघान स वृकोदरः ॥ 41 ॥
						
					 
					
						शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ।
							वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली ।
						
						वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ॥ 42 ॥
						
					 
					
						तान्निहत्य महाबाहुर्भीमसेनो महाबलः ।
						आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ॥ 43 ॥
					 
					
						उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः ।
							अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ॥ 44 ॥ 4-27-45a[ मा
								खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता ।
							पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः ॥ 45 ॥
						
					 
					
						पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः ।
						कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ॥ 46 ॥
					 
					
						कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः ।
						तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ॥ 47 ॥
					 
					
						साम्ना दानेन भेदेन सा यदा नान्वमन्यत ।
						तदा तां पातयित्वा स मैथुनायोपचक्रमे ॥ 48 ॥
					 
					
						ततः सा धैर्यमास्थाय विवरं त ददौ तदा ।
						ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ॥ 49 ॥
					 
					
						साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता ।
						प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ॥ 50 ॥
					 
					
						आराधितो यदि मया भर्ता मे दैवतं महत् ।
							कर्मणा मनसा वाचा गुरवस्तोषिता मया ।
						
						तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ॥ 51 ॥
						
					 
					
						एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत् ।
						अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ॥ 52 ॥
					 
					
						ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ॥ 53 ॥
						
					 
					
						जया नाम सखी साऽभूत्पार्वत्या नखमांसवत् ।
						तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ॥ ]॥ 54 ॥
					 
					
						एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः ।
						गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ॥ 55 ॥
					 
					
						अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् ।
							अन्येनाहं गमिष्यामि विराटस्य महानसम् ।
						
						यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ॥ 56 ॥
						
						वैशंपायन उवाच । 
					 
					
						साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ॥ 57 ॥
							कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा ।
						
					 
					
						शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ॥ 58 ॥
							भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः ।
						
					 
					
						सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ॥ 59 ॥
							निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव ।
						
					 
					
						जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ॥ 60 ॥
							पञ्चाधिकं शतं तत्र निहतं तेन भारत ।
						
					 
					
						महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ 61 ॥
							एवं ते निहता राजञ्शतं पञ्चोपकीचकाः ।
						
					 
					
						स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ॥ 62 ॥
							न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः ।
						
					 
					
						अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ॥ 63 ॥
							विराटनगरे चापि सर्वे मात्स्याः समागताः ।
						
					 
					
						काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ॥ 64 ॥
							तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः ।
						
					 
					
						विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ 65 ॥ ॥
					 
					 इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायाः ॥ 27 ॥ 
					 4-27-45 *इमे 10 श्लोकाः घo पुस्तक एव दृश्यन्ते ॥ 4-27-63
						तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः तांप्रति किंचिद्वक्तुं
						नाशक्नुवन्नित्यध्याहारेण योजना ॥ 63 ॥