अध्यायः 041
पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनंप्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनां प्रश्नः ॥ 1 ॥
उत्तर उवाच ।
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः ।
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः ।
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ॥
बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः ।
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ॥
पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः ।
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ॥
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् ।
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम्
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ॥
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् ।
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ॥
चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः ।
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः ।
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ॥
चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम् ।
नीलोपलिप्तमच्छिदं जातरूपमयं धनुः ।
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ॥
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः ।
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ॥
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः ।
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ॥
कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः ।
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ॥
हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः ।
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ॥
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः ।
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ॥
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः ।
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ॥
कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः ।
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ॥
वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः ।
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ॥
कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः ।
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ॥
मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः ।
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ॥
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः ।
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ॥
निहितः पार्षते कोशे तैलधौतः समाहितः ।
प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम् ।
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ॥
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले ।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥