अध्यायः 154
युधिष्ठिरेण दुर्योधनपराजयः ॥ 1 ॥
सञ्जय उवाच । 
					तदुदीर्णं रथाश्वौघं बलं तव जनाधिप ।
						पाण्डुसेनामतिक्रम्य योधयामास सर्वतः ॥
					पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् ।
						यमराष्ट्राय महते परलोकाय दीक्षिताः ॥
					शूराः शूरैः समागम्य शरतोमरशक्तिभिः ।
						विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम् ॥
					रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम् ।
						प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥
					वारणाश्च महाराज समासाद्य परस्परम् ।
						विषाणैर्दारयामासुः सुसङ्क्रुद्धा मदोत्कटाः ॥
					हयारोहान्हयारोहाः प्रासशक्तिपरश्वथैः ।
						बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥
					पत्तयश्च महाबाहो शतशः शस्त्रपाणयः ।
						अन्योन्यमार्दयन्राजन्नित्यं यत्ताः पराक्रमे ॥
					गोत्राणां नामधेयानां कुलानां चैव मारिष ।
						श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥
					तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वथैः ।
						प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥
					शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः ।
						न भ्राजन्ते यथा पूर्वं भास्करस्य च नाशनात् ॥
					तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत ।
						दुर्योधनो महाराज व्यवागाहत तद्बलम् ॥
					सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः ।
						मर्तव्यमिति संचिन्त्य प्राविशच्च द्विषद्बलम् ॥
					नादयन्रथघोषेण कम्पयन्निव मेदिनीम् ।
						अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥
					स सन्निपातस्तुमुलस्तस्य तेषां च भारत ।
						अभवत्सर्वसैन्यानामभावकरमो महान् ॥
						`धृतराष्ट्र उवाच । 
					तथा हतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।
						कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥
					एकस्य च बहुनां च सन्निपातो महानभूत् ।
						विशेषतो हि नृपतेर्विषमं प्रतिभाति मे ॥
					सोऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः ।
						एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥
					द्रोणः कर्णः कृपश्चैव कृतवर्मा च सात्वतः ।
						नावारयन्कथं युद्धे राजानं राज्यकाङ्क्षिणः ॥
					सर्वोपायैर्हि युद्धेषु रक्षितव्यो महीपतिः ।
						एषा नीतिः परा युद्धे दृष्टा तत्र मनीषिभिः ॥
					प्रविष्टे वै मम सुते परेषां वै महद्बलम् ।
						मामका रथिनां श्रेष्ठाः किमकुर्वत स़ञ्जय ॥
						सञ्जय उवाच । 
					राजन्सङ्ग्राममाश्चर्यं पुत्रस्य तव भारत ।
						एकस्य च बहूनां च शृणु मे ब्रुवतो ध्रुवम् ॥
					द्रोणेन वार्यमाणोऽसौ कर्णेन च कृपेण च ।
						प्राविशत्पाण्डवीं सेनां मकरः सागरं यथा ॥
					किरन्निषुसहस्राणि तत्रतत्र तथातथा ।
						पाञ्चालान्पाण्डवांश्चैव विव्याध निशितैः शरैः ॥
					यथोदयगतः सूर्यो रश्मिभिर्नाशयेत्तमः ।
						तथा पुत्रस्तव बलं नाशयत्तन्महाबलः' ॥
					यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः ।
							तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः ।
						
						न शेकुर्भारतं युद्धे पाण्डवाः समुदीक्षितुम् ॥
						
					पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।
						पर्यधावन्त पाञ्चाला वध्यमाना महात्मना ॥
					रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ।
						अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥
					`व्यद्रवंश्च भयाद्योधा दृष्ट्वा तं परमाहवे ।
						व्यात्ताननमिव प्राप्तमन्तकं प्राणहारिणम्' ॥
					न तादृशं रमे कर्म कृतवन्तस्तु तावकाः ।
						यादृशं कृतवान्राजा पुत्रस्तव विशाम्पते ॥
					पुत्रेण तव सा सेना पाण्डवी मथिता रणे ।
						नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥
					क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी ।
						बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥
					पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत ।
						भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥
					स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः ।
						विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥
					धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः ।
						केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥
					सात्वतं पञ्चभिर्विद्धा द्रौपदेयांस्त्रिभिस्त्रिभिः ।
						घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥
					शतशश्चापरान्योधान्सद्विपांश्च महारणे ।
						शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥
					सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः ।
						तव पुत्रेण सङ्ग्रामे विदुद्राव नराधिप ॥
					तं तपन्तमिवादित्यं कुरुराजं महाहवे ।
						नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः ॥
					ततो युधिष्ठिरो राजा कुपितो राजसत्तम ।
						अभ्यधावत्कुरुपतिं तव पुत्रं जिघांसया ॥
					तावुभौ युधि कौरव्यौ समीयतुररिन्दमौ ।
						स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ ॥
					ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः ।
						विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा ॥
					इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप ।
						सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः ॥
					धनुश्च पुनरन्येन चकर्तास्य महारथः ।
						चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनाः ॥
					ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम् ।
						अन्यदादाय वेगेन कौरवं प्रत्यवारयत् ॥
					तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः ।
						भल्लाभ्यां पण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥
					विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः ।
						मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन् ॥
					ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम् ।
						वृत्रेण सह युध्यन्तं यद्वद्देवाः शतक्रतुम् ॥
					ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष ।
							शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम् ।
						
						हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः ॥
						
					स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः ।
						निषसाद रथोपस्थे भृशं सम्मूढचेतनः ॥
					ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान् ।
						हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥
					बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष ।
						अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥
					हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् ।
						तिष्ठतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥
					प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला जयगृद्धिनः ।
							तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ।
						
						चण्डवातः समुद्वूतो मेघानम्बुमुचो यथा ॥
						
					ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः ।
						तावकानां परेषां च समेतानां युयुत्सया ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
5-154-8 गोत्रं पित्रादि नाम शैनेय सात्यके इत्यादि । कुलं पाण्ड्यपाञ्चाल्येत्यादि ॥ 5-154-46 सम्यगस्तैः दृढं प्रक्षिप्तैः ॥ 5-154-51 बाणशब्दरवो बाणशब्दसहितो रवः प्राणिशब्दः ॥ 5-154-54 भूरिवर्धनो बहुच्छेदनः ॥ 5-154-154 चतुःपञ्चाशदधिकशततमोऽध्यायः ॥
श्रीः
