अध्यायः 083
पार्थचोदनया कृष्णेन कर्णसमीपम्प्रति रथप्रापणम् ॥ 1 ॥ शल्येन कर्णप्रोत्साहनम् ॥ 2 ॥ कर्णेन पार्थप्रशंसनपूर्वकं तद्वधप्रतिज्ञा ॥ 3 ॥ सङ्कुलयुद्धम् ॥ 4 ॥
सञ्जय उवाच । 
					हत्वा तु फल्गुनः सेनां कौरवाणां पृथक्पृथक् ।
						सूतपुत्रस्य संरम्भं दृष्ट्वा चैव महारणे ॥
					शोणितोदां नदीं कृत्वा मांसमज्जास्थिपङ्किलाम् ।
						मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् ॥
					शूरास्थित्तयसङ्कीर्णां काकगृध्रानुनादिताम् ।
						छत्रहंसप्लुवोपेतां वीरवृक्षापहारिणीम् ॥
					हारपद्माकरवतीमुष्णीषवरफेनिलाम् ।
						धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् ॥
					चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् ।
						जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् ॥
					नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा ।
						वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः ॥
						अर्जुन उवाच । 
					एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।
						भीमसेनादयश्चैते योधयन्ति महारथम् ॥
					एते द्रवन्ति पाञ्चालाः कर्मत्रस्ता जनार्दन ।
						एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते ॥
					कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ।
						कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥
					एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।
						अवध्यमानास्तेऽस्माभिर्योधयिष्यन्ति सोमकान् ॥
					एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः ।
						सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥
					तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम ।
						नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥
					मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान् ।
						निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन ॥
						सञ्जय उवाच । 
					ततः प्रायाज्जवेनाशु केशवस्तव वाहिनीम् ।
						कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिनः ॥
					स प्रयातो रथेनाशु कृष्णो राजन्महाहवे ।
						आश्वासयन्रणे चाशु पाण्डुसैन्यानि सर्वशः ॥
					रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह ।
						वासवास्त्रनिपातेन पर्वतेष्विव मारिष ॥
					महता रथघोषेण पाण्डवः सत्यविक्रमः ।
						अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम् ॥
					तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।
						मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥
					अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।
						निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥
					एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।
						तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥
					धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता ।
						पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा ॥
					एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः ।
						दृश्यते वानरो भीमो वीक्षतां भयवर्धनः ॥
					एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो ।
						दृश्यते पाण्डवरथे वाहयानस्य वाजिनः ॥
					एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना ।
						एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥
					विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः ।
						एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥
					एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः ।
						उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः ॥
					निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः ।
						पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते ॥
					एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः ।
						सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा ॥
					गन्धर्वनगराकारा रथा हतनरेश्वराः ।
						विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी ॥
					व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना ।
						नानामृगसहस्राणां यूथं केसरिणा यथा ॥
					त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् ।
						असज्जमानो राधेय तं याहि प्रति भारत ॥
					एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।
						अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥
					वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः ।
						त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥
					न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह ।
						त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥
					विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम् ।
						शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥
					द्रौपदेयान्युधामन्युमुत्तमौजसमेव च ।
						नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु ॥
					सहसैकरथः पार्थस्त्वामभ्येति परन्तपः ।
						क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान् ॥
					त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।
						त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥
					न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम् ।
						अर्जुनं समरे क्रुद्धं यो वेलामिव वारयेत् ॥
					न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः ।
						एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥
					त्वं हि कृष्णौ रणे शक्तो योद्धुमेतौ परन्तपौ ।
						तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥
					समानो ह्यसि भीष्मेण द्रोमद्रौणिकृपेण च ।
						सव्यसाचिनमायान्तं निवारय महारणे ॥
					लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा ।
						वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥
					एते द्रवन्ति समरान्निरपेक्षा नराधिपाः ।
						अर्जुनस्य भयत्रस्ता धार्तराष्ट्रा महाबलाः ॥
					द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः ।
						भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन ॥
					एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ।
						धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥
					वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया ।
							गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ।
						
						तां धृतिं कुरुराधेय ततः प्रत्येहि पाण्डवम् ॥
						
					वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ।
						प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः ॥
						कर्ण उवाच । 
					प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा ।
						प्रतिभासि महाबाहो अभीतश्च धनञ्जयात् ॥
					पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे ।
						एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥
					कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते ।
						नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन ॥
					शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः ।
						कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथ वा हतः ॥
						शल्य उवाच । 
					अजय्यमेनं प्रवदन्ति युद्धे
							महारथाः कर्ण रथप्रवीरम् ।
						
						एकाकिन किमु कृष्णाभिगुप्तं
							विजेतुमेनं क इहोत्सहेत ॥
						
						कर्ण उवाच । 
					नैतादृशो जातु बभूव लोके
							रथोत्तमो यावदुपश्रुतं नः ।
						
						तमीदृशं प्रतियोत्स्यामि पार्थं
							महाहवे पश्य च पौरुषं मे ॥
						
					रणे चरत्येष रथप्रवीरः
							सितैर्हयैः कौरवराजपुत्रः ।
						
						स वाऽद्य मां नेष्यति कृच्छ्रमेत--
							त्कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः ॥
						
					अस्वेदिनौ राजपुत्रस्य हस्ता--
							ववेपमानौ जातकिणौ बृहन्तौ ।
						
						दृढायुधः कृतिमान्क्षिप्रहस्तो
							न पाण्डवेयेन समोऽस्ति योधः ॥
						
					गृह्णात्यनेकानपि कङ्कपत्रा--
							नेकं यथा तान्प्रतियोज्य चाशु ।
						
						ते क्रोशमात्रे निपतन्त्यमोधाः
							कस्तेन योधोऽस्ति समः पृथिव्याम् ॥
						
					अतोषयत्स्वाण्डवे यो हुताशं
							कृष्णद्वितीयोऽतिरथस्तरस्वी ।
						
						लेभे चक्रं यत्र कृष्णो महात्मा
							धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥
						
					श्वेताश्वयुक्तं च सुघोषमुग्रं
							रथं महाबाहुरदीनसत्वः ।
						
						महेषुधी चाक्षये दिव्यरूपे
							शस्त्राणि दिव्यानि च हव्यवाहात् ॥
						
					यस्त्विन्द्रलोके निजघान दैत्या--
							नसङ्ख्येयान्कालकेयांश्च सर्वान् ।
						
						लेभे शङ्खं देवदत्तं स्म तत्र
							को नाम तेनाभ्यधिकः पृथिव्याम् ॥
						
					महादेवं तोषयामास योऽस्त्रैः
							साक्षात्सुयुद्धेन महानुभावः ।
						
						लेभे ततः पाशुपतं सुघोरं
							त्रैलोक्यसंहारकरं महास्त्रम् ॥
						
					पृथक्पृथग्लोकपालाः समेता
							ददुर्महास्त्राण्यप्रमेयाणि सङ्ख्ये ।
						
						यैस्ताञ्जघानाशु रणे नृसिंहः
							सकालकेयानसुरान्समेतान् ॥
						
					तथा विराटस्य पुरे समेता--
							न्सर्वानस्मानेकरथेन जित्वा ।
						
						जहार तद्रोधनमाजिमध्ये
							वस्त्राणि चादत्त महारथेभ्यः ॥
						
					तमीदृशं वीर्यगुणोपपन्नं
							कृष्णद्वितीयं परमं नृपाणाम् ।
						
						तमाह्वयन्साहसमुत्तमं वै
							जाने स्वयं सर्वलोकस्य शल्य ॥
						
					अनन्तवीर्येण च केशवेन
							नारायणेनाप्रतिमेन गुप्तः ।
						
						वर्षायुतैर्यस्य गुणा न शक्या
							वक्तुं समेतैरपि सर्वलोकैः ॥
						
					महात्मनः शङ्खचक्रासिपाणे--
							र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।
						
						भयं न मे जायते साध्वसं च
							दृष्ट्वा कृष्णावेकरथे समेतौ ॥
						
					अतीवायं धनुषि राजपुत्रे--
							ष्वतीवान्यान्केशवश्चक्रयुद्धे ।
						
						एवंविधौ पाण्डववासुदेवौ
							चलेत्स्वदेशाद्विमवान्न कृष्णौ ॥
						
					उभौ हि शूरौ बलिनौ दृढायुधौ
							महारथौ संहननोपपन्नौ ।
						
						एतौ वीरौ नरवीरौ समेतौ
							स्थानाच्च्युतौ देवकुमाररूपौ ॥
						
					अग्र्यादित्याविन्द्रवृहस्पती वा
							यमान्तकौ वा शत्रिपूषणौ वा ।
						
						भगांशमित्रावरुणावश्विनौ वा
							मरुद्गणौ वा वसवः समेताः ।
							व्यस्ताः समस्ताश्च युधा न शक्ता
							जेतुं प्रसह्यार्जुनं चाच्युतं च ॥
						
					एतौ हि तावर्जुनवासुदेवौ
							कोऽन्यः प्रतीयान्मदृते तु शल्य ॥
						
					सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
						सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥
					तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ ।
						मामेकमभियोद्धारौ सुजातं बत शल्य मे ॥
					नैतच्चिरं क्षिप्रमिमं रथं मे
							प्रवर्तयैतावभियामि चैवम् ।
						
						अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ
							ताभ्यां हतं वा युधि मां रिपुभ्याम् ॥
						
					एवं ब्रुवाणः सहसा महारथ--
							स्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः ॥
						
					अभ्येत्य पुत्रेण तवाभिनन्दिताः
							समेत्य चोक्ताः कुरुवीरसत्तमाः ।
						
						कृपश्च भोजश्च महारथावुभौ
							तथैव गान्धारपतिः सहानुजः ।
							गुरोः सुतस्तस्य तवात्मजास्तथा
							पदातिसङ्घा द्विरदास्तथा तदा ॥
						
					निरुध्यताभिद्रवताच्युतार्जुनौ
							श्रमेण संयोजयताशु सर्वशः ।
						
						यथा भवद्भिर्भृशविक्षतावुभौ
							सुखेन हन्यान्मम वाहिनीपतिः ॥
						
					तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं
							जिघांसवो वीरतराः समाययुः ।
						
						शरैश्च जघ्नुर्युधि तं महारथा
							धनञ्जयं कर्णनिदेशकारिणः ।
							नदीनदं भूरिजलो महार्णवो
							यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥
						
					न सन्दधानो न तथा शरोत्तमान्
							प्रमुञ्चमानो रिपुभिः प्रदृश्यते ।
						
						धनञ्जयास्तैः स्म शरैर्विदारिता
							हता निपेतुर्नरवाजिकुञ्जराः ॥
						
					शरार्चिषं गाण्डिवचारुमण्डलं
							युगान्तसूर्यप्रतिमानतेजसम् ।
						
						न कौरवाः शेकुरुदीक्षितुं जयं
							यथा रविं व्याधितचक्षुषो जनाः ॥
						
					शरोत्तमान्सम्प्रहितान्महारथै
							श्चिच्छेद पार्थः प्रहसञ्छरौधैः ।
						
						भूयश्च तानहनद्बाणसङ्घान्
							गाण्डीवधन्वायतपूर्णमण्डलम् ॥
						
					यथोग्ररश्मिः शुचिशुक्रमध्यगः
							सुखं विवस्वान्हरते जलौघान् ।
						
						तथार्जुनो बाणगणान्निरस्य
							ददाह सेनां तव पार्थिवेन्द्र ॥
						
					तमभ्यधावद्विसृजन्कृपः शरां--
							स्तथैव भोजस्तव चात्मजः स्वयम् ।
						
						महारथो द्रोणसुतश्च सायकै--
							रवाकिरंस्तोयधरा यथाऽचलम् ॥
						
					जिघांसुभिस्तान्कुशलैः शरोत्तमान्
							महात्मभिः सम्प्रहितान्प्रयत्नतः ।
						
						शरैः प्रतिच्छेद स पाण्डवस्त्वरन्
							परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः ॥
						
					स गाण्डिवव्यायतपूर्णमण्डल--
							स्तपन्रिपूनर्जुनभास्करो वभौ ।
						
						शरोग्रश्मिः शुचिशुक्रमध्यगो
							यथैव सूर्यः परिवेयवांस्तथा ॥
						
					अथाग्र्यबाणैर्दशभिर्धनञ्जयं
							पराभिनद्दोणसुतोऽच्युतं त्रिभिः ।
						
						चतुर्भिरश्वांश्चतुरः कपिं ततः
							शरैश्च नाराचवरैरवाकिरत् ॥
						
					तथा ततः प्रस्फुरदस्य कार्मुकं
							त्रिभिः शरैर्यन्तृशिरश्चकर्त ह ।
						
						हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं
							धनञ्जयो द्रौणिरथादपातयत् ॥
						
					स रोषपूर्णो ह्मतिवज्रहाटकै---
							रलङ्कृतं तक्षकभोगवर्चसम् ।
						
						स तद्वधे कार्मुकमन्यदाददे
							यथा महाहिप्रवरं तथैव च ॥
						
					स्वमायुधं चापि विकीर्य भूतले
							धनुश्च कृत्वा सगुणं गुणाधिकः ।
						
						समानयंसल्तावजितौ नरोत्तमौ
							शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥
						
					कृपश्च भोजश्च तवात्मजश्च ते
							शरैरनेकैर्युधि पाण्डवर्षभम् ।
						
						महारथाः संयुगमूर्धनि स्थिता--
							स्तमोनुदं वारिधरा इवापतन् ॥
						
					कृपस्य पार्थः शरं शरासनं
							हयान्ध्वजान्सारधिमेव पत्रिभिः ।
						
						[समार्पयद्वाहुसहस्रविक्रम--
							स्तथा यथा वज्रधरः पुरा बलेः ॥
						
					स पार्थबाणैर्विनिपातितायुधो
							ध्वजावमर्दे च कृते महाहवे ।
						
						कृतः कृपो बाणसहस्रयनितो
							यथापगेयः प्रथमं किरीटिना ॥]
						
					शरैः प्रचिच्छेद तवात्मजस्य
							ध्वजं धनुश्च प्रचकर्त नर्दतः ।
						
						जघान चाश्वान्कृतवर्मणः शुभान्
							ध्वजं च चिच्छेद तवात्मजस्य ह ॥
						
					सवाजिसूतेष्वसनान्सकेतना--
							ञ्जयान नागाश्वरथांश्च स त्वरन् ।
						
						ततः प्रकीर्णं सुमहद्वलं तव
							प्रपीडितं सवितुरिवौजसा भृशम् ॥
						
					ततोऽर्जुनस्वाशु रथेन केशव--
							श्चकार शत्रूनपसव्यमातुरान् ।
						
						ततः प्रयातं त्वरितं धनञ्जयं
							शतक्रतुं वृत्रनिजघ्रुषं यथा ।
							समन्वधावन्पुनरुत्थितैर्ध्वजै
							रथैः सुयुक्तैरपरे युयुत्सवः ॥
						
					अथाभिसृत्य प्रतिवार्य चाहितान्
							धनञ्जयस्यानुचरान्महारथाः ।
						
						शिखण्डिशैनेययमाः शितैः शरै---
							र्विदारयन्तो व्यनदन्सुभैरवम् ॥
						
					ततोऽभिजघ्नुः कुपिताः परस्परं
							शरैस्तदाञ्चोगतिभिः सुतेजनैः ।
						
						कुरुप्रवीराः सह पृञ्जयैर्यथा
							सुरारयो देवपतिं यथा तथा ॥
						
					जयेप्सवः स्वर्गमनाय चोत्सुकाः
							पतन्ति नागाश्वरथाः परन्तप ।
						
						तथैव सर्वे बहवश्च विव्यधुः
							शरैः सुमुक्तैरितरेतरं पृथक् ॥
						
					शरान्धकारे तु महात्मभिः कृते
							महामृधे योधवरैः परस्परम् ।
						
						चतुर्दिशो वै विदिशश्च पार्थिव
							प्रभा च सूर्यस्य तमोवृताऽभवत् ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥
8-83-81 शुचिशुकयोः आषाढज्येष्ठयोर्मध्ये गतः ॥ 8-83-94 तथार्जुनस्याविरथेन केशव इति ख.ट.पाठः । अथार्जुनस्याधिरथेश्च केशव इति क.ङ.पाठः ॥ 8-83-83 त्र्यशीतितमोऽध्यायः ॥
श्रीः
