अध्यायः 122
					 भीष्मेण युधिष्ठिरंप्रति वसुहोममान्धातृसंवादानुवादपूर्वकं
						दण्डोत्पत्त्यादिकथनम् ॥ 1 ॥ 
					
					
						अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
						अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥
					 
					
						स राजा धर्मविन्नित्यं सह पत्न्या महातपाः ।
							मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम् ।
						
					 
					
						तत्र शृङ्गे हिमवतो वसतिं समुपागमत् ।
						यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥
					 
					
						तदादि च महाप्राज्ञः ऋषिभिः संशितव्रतैः ।
						मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥
					 
					
						स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः ।
						ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥
					 
					
						तं कदाचिददीनात्मा सखा शक्रस्य मानितः ।
						अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥
					 
					
						सोपसृत्य तु मान्धाता वसुहोमं नराधिपम् ।
						दृष्ट्वा प्रकृष्टतपसं विनयेनोपतिष्ठते ॥
					 
					
						वसुहोमोऽपि राज्ञो वै गामर्ध्यं च न्यवेदयत् ।
						सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ ॥
					 
					
						सद्भिराचरितं पूर्वं यथावदनुयायिनम् ।
						अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते ॥
					 
					
						सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः ।
						वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥
					 
					
						बृहस्पतेर्मतं राजन्नघीतं सकलं त्वया ।
						तथैवौशनसं शास्त्रं विज्ञातं ते नरोत्तम ॥
					 
					
						तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् ।
						किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते ॥
					 
					
						कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः ।
						ब्रूहि मे तद्यथातत्वं ददाम्याचार्यवेतनम् ॥
						वसुहोम उवाच । 
					 
					
						शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः ।
						प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥
					 
					
						ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः ।
						ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम् ॥
					 
					
						स गर्भं भगवान्देवो बहुवर्षाण्यधारयत् ।
						अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत् ॥
					 
					
						स क्षुपो नाम संभूतः प्रजापतिररिंदम् ।
						ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः ॥
					 
					
						तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ ।
						इष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥
					 
					
						तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत् ।
						नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते ॥
					 
					
						पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम् ।
						गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम् ॥
					 
					
						परस्परं विलुम्पन्ति सारमेया यथाऽऽमिषम् ।
						अबलान्बलिनो जघ्नुर्निर्मर्यादं प्रवर्तते ॥
					 
					
						ततः पितामहो विष्णुं भगवन्तं सनातनम् ।
						संपूज्य वरदं देवं महादेवमथाब्रवीत् ॥
					 
					
						अत्र त्वमनुकम्पां वै कर्तुमर्हसि शङ्कर ।
						अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे ॥
					 
					
						`त्वं हि सर्वविधानज्ञः सत्वानां त्वं गतिः परा ।'
							संकरो न भवेदत्र यथा तद्वै विधीयताम् ॥
						
					 
					
						ततः स भगवान्ध्यात्वा तदा शूलवरायुधः ।
						` देवदेवो महादेवः कारणं जगतः परम् ॥
					 
					
						ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः ।
							लोकसन्धारणार्थं च लोकसंकरनाशनम् ।'
						
						आत्मानमात्माना दण्डं ससृजे देवसत्तमः ॥
						
					 
					
						तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम् ।
						असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम् ॥
					 
					
						`यथाऽसौ नीयते दण्डः सततं पापकारिषु ।
							दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते ॥'
						
					 
					
						भूयः स भगवान्ध्यात्वा चिरं शूलघरः प्रभुः ।
						`असृजत्सर्वशास्त्राणि महादेवो महेश्वरः ॥
					 
					
						दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः ।
						विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः ॥
					 
					
						अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
						पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
					 
					
						आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ।
						अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥
					 
					
						दश चाष्टौ च विख्याता एता धर्मस्य संहिताः ।
						एतासामेव विद्यानां व्यासमाह महेश्वरः ॥
					 
					
						शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम् ।
						व्यास एव तु विद्यानां महादेवेन कीर्तितः ॥
					 
					
						तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम् ।
						योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा ॥
					 
					
						तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् ।
						सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम् ॥
					 
					
						तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः ।
						दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः ॥
					 
					
						पुराणाश्च प्रणीताश्च तावदेवेह संहिताः ।
						धर्मशास्त्राणि तद्वच्च एकार्थानि च नान्यथा ॥
					 
					
						एकार्थानि पुराणानि वेदाश्चैकार्यसंहिताः ।
						नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः ॥
					 
					
						प्रोवाच भगवान्देवः कालज्ञानानि यानि च ।
						चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् ॥
					 
					
						अष्टादशविकल्पां तां दण्डनीतिं च शाश्वतीम् ।
						गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् ॥
					 
					
						इत्येताः शंकरप्रोक्ता विद्याः शब्दार्थसंहिताः ।
						पुनर्भेदसहस्रं तु तासामेव तु विस्तरः ॥
					 
					
						ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः ।
						शश्वदभ्यस्यते लोके वेद एव तु सर्वशः ॥
					 
					
						वेदाश्चतस्रः संक्षिप्ता वेदवादाश्च ते स्मृताः ।
						एतासां पारगो यश्च स चोक्तो वेदपारगः ॥
					 
					
						वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः ।
						शक्रः स्वायंभुवश्चैव मनुः परमधर्मवित् ॥
					 
					
						ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः ।
						सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः ॥
						भीष्म उवाच । 
					 
					
						अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च ।
							शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह ।
						
						वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः ॥
						
					 
					
						कल्पेकल्पे महाभागैर्ऋषिभिस्तत्त्वदर्शिभिः ।
						ऋषिपुत्रैर्ऋषिगणैर्भिद्यन्ते मिश्रकैरपि ॥
					 
					
						शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः ।
						आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः ॥
					 
					
						इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः ।
						पूर्वजन्मानुसारेण बहुधेयं सरस्वती ॥
					 
					
						भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः ।'
							तस्यतस्य निकायस्य चकारैकैकमीश्वरम् ॥
						
					 
					
						देवानामीश्वरं चक्रे दैवं दशशतेक्षणम् ।
						यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥
					 
					
						अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् ।
						धनानां राक्षसानां च कुवेरमपि चेश्वरम् ॥
					 
					
						पर्वतानां पतिं मेरुं सरितां च महोदधिम् ।
						मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥
					 
					
						रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः ।
						महात्मानं महादेवं विशालाक्षं सनातनम् ॥
					 
					
						`दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसंभवाः ।
							नानारूपधरो देवः स एव भगवाञ्शिवः ॥'
						
					 
					
						वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् ।
						तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥
					 
					
						वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम् ।
						कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥
					 
					
						कालं सर्वेशमकरोत्संहारविनयात्मकम् ।
						मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥
					 
					
						ईश्वरो देवदेवस्तु राजराजो नराधिपः ।
						सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥
					 
					
						`ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः ।
						विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः ॥
					 
					
						सृजते ग्रसते चैतत्तमोभूतमिदं यथा ।
							अप्रज्ञातं जगत्सर्वं यदा ह्येको महेश्वरः ॥ '
						
					 
					
						तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ ।
						प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥
					 
					
						महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः ।
						दण़्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥
					 
					
						विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः ।
						प्रादादिन्द्रमरीचिभ्या मरीचिर्भृगवे ददौ ॥
					 
					
						भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम् ।
						ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥
					 
					
						क्षुपस्तु मनवे प्रादादादित्यतनयाय च ।
						पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ॥
					 
					
						विभज्य दण़्डः कर्तव्यो दण्डे तु नयमिच्छता ।
						दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया ॥
					 
					
						व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात् ।
						शरीरपीडा कार्या तु स्वदेशाच्च विवासनम् ॥
					 
					
						तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम् ।
						आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन् ॥
					 
					
						इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ।
						अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः ॥
					 
					
						प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ।
						धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः ॥
					 
					
						व्यवसायात्ततस्तेजो जागर्ति परिपालयत् ।
						ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः ॥
					 
					
						पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ।
						जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतीमनु ॥
					 
					
						वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ।
						ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ॥
					 
					
						पितामहान्महादेवो जागर्ति भगवाञ्शिवः ।
						विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा ॥
					 
					
						ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ।
						देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ॥
					 
					
						ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मताः ।
						स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥
					 
					
						प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च ।
						सर्वसंक्षेपको दण़्डः पितामहसुतः प्रभुः ॥
					 
					
						जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत ।
						ईशः सर्वस्य कालो हि महादेवः प्रजापतिः ॥
					 
					
						देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः ।
						कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः ॥
					 
					
						इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथापरे ।
						भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥
						भीष्म उवाच । 
					 
					
						इतीदं वसुहोमस्य योऽऽत्मवाञ्शृणुयान्मतम् ।
						श्रुत्वा सम्यक्प्रवर्तेत स लोकानाप्नुयान्नृपः ॥
					 
					
						इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ ।
						नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥
					 
					
						`वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा ।
							मयापि कथितं राजन्नाख्यानं प्रथितं मया ॥' ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥ 
					 12-122-1 अत्र दण्डोत्पत्तौ विषये ॥ 12-122-13 आचार्यवेतनं
						गुरुदक्षिणाम् ॥ 12-122-15 यियक्षुर्यष्टुमिच्छुः ॥ 12-122-16 सगर्भं शिरसा
						देवः इति झ. पाठः । क्षुवतः क्षुतवतः ॥ 12-122-18 अष्टं रूपं दीक्षापरिग्रहः
						प्रजानियन्ता दीक्षां प्रविष्ट इति नियमनरूपो दण्डोऽन्तर्हितोऽभवदित्यर्थः ॥ 12-122-59 कर्तुमर्हसि केशव इति झ. पाठः । विनयो विवृद्धिः । चत्वारो विभागा यस्य
						तस्य शस्त्रं शत्रुर्यमः कर्म च । रोगोऽपथ्याशनप्रयोजको रागो यमः कर्म चेति वा ॥ 12-122-68 विभज्य न्यायं न्यायाभासं च विविच्य । दुष्टनिग्रह एव दण्डस्य मुख्यं
						प्रयोजनम् । हिरण्यादिग्रहणं तु लोकानां बिभीषिकार्थं नतु कोश
						वृद्ध्यर्थमित्यर्थः ॥ 12-122-69 विवासनं स्वदेशाद्दूरीकरणाम् ॥ 12-122-73
						ओषधीभ्यश्च पादपाः इति ट. पाठः ॥ 12-122-74 पादपेभ्यश्च जागर्ति इति ट. पाठः ॥