अध्यायः 147
भर्तृशोकतप्तथा कपोत्या सकरुणं विलप्याग्नौ प्रवेशः ॥ 1 ॥ ततो विमानारोहणेन स्वर्गतयोः कपोतयोस्तत्र सुखेन चिरविहारः ॥ 2 ॥
भीष्म उवाच । 
					ततो गतो शाकुनिके कपोती प्राह दुःखिता ।
						संस्मृत्य सा च भर्तारं रुदती शोककर्शिता ॥
					नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे ।
						सर्वाऽपि विधवा नारी बहुपुत्राऽपि शोचते ॥
					शोच्या भवति बन्धूनां पतिहीना तपस्विनी ।
						लालिताऽहं त्वया नित्यं बहुमानाच्च पूजिता ॥
					वचनैर्मधुरैः स्निग्धैरसंक्लिष्टमनोहरैः ।
						कन्दरेषु च शैलानां नदीनां निर्झरेषु च ॥
					द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया सह ।
							आकाशगमने चैव विहृताऽहं त्वया सुखम् ।
						
						रमामि स्म पुरा कान्त तन्मे नास्त्यद्य मे प्रिय ॥
						
					मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
						अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
					नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ।
						विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥
					न कार्यमिह मे नाथ जीवितेन त्वया विना ।
						पतिहीना तु का नारी सती जीवितुमुत्सहेत् ॥
					एवं विलप्य बहुधा करुणं सा सुदुःखिता ।
						पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् ॥
					ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत ।
						विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥
					चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् ॥
						विमानशतकोटीभिरावृतं पुण्यकर्मभिः ॥
					ततः स्वर्गं गतः पक्षी विमानवरमास्थितः ।
						कर्मणा पूजितस्तत्र रेमे स सह भार्यया ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥
