अध्यायः 167
					 भीष्मेण युधिष्ठिरंप्रति कृतघ्नमित्रद्रोहिलक्षणकथनाय
						दृष्टान्ततया गौतमकथाकथनारम्भः ॥ 1 ॥ ब्राह्मणाधमेनकेनचिद्गौतमकुलजेन धनार्जनाय
						दस्युग्रामप्रवेशः ॥ 2 ॥ तत्र केनचिद्दस्युवरेण भर्तृविरहितनारीसमर्पणादिना
						सत्कृतेन गौतमेन दस्युवृत्त्योपजीवनम् ॥ 3 ॥ 
					
					
						विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि तत्त्वतः ।
						मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद ॥
						भीष्म उवाच । 
					 
					
						हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
						उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप ॥
					 
					
						ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः ।
						ग्रामं दस्युगणाकीर्णं प्राविशद्धनतृष्णया ॥
					 
					
						तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ।
						ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत् ॥
					 
					
						तस्य क्षयमुपागम्य ततो भिक्षामयाचत ।
						प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम् ॥
					 
					
						प्रादात्तस्मै स विप्राय वस्त्रं च सदशं नवम् ।
						नारीं चापि वयोपेतां भर्त्रा विरहितां तथा ॥
					 
					
						एतत्संप्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा ।
						तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः ॥
					 
					
						कुटुस्बार्थं च दस्योश्च साहाय्यं चाप्यथाकरोत् ।
						सोऽवसद्वर्षमेकं वै समृद्धे शबरालये ॥
					 
					
						बाणवेधे परं यत्नमकरोच्चैव गौतमः ।
							चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान् ।
						
						जघान गौतमो राजन्यथा दस्युगणास्तथा ॥
						
					 
					
						हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः ।
						गौतमः सन्निकर्षेण दस्युभिः समतामियात् ॥
					 
					
						तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ।
						अगमन्बहवो मासा निघ्नतः पक्षिणो बहून् ॥
					 
					
						ततः कदाचिदपरो द्विजस्तं देशमागतः ।
						जटाचीराजिनधरः स्वाध्यायनिरतः शुचिः ॥
					 
					
						विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः ।
							अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः ।
						
						तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत् ॥
						
					 
					
						स तु विप्रगृहान्वेपी शूद्रान्नपरिवर्जकः ।
						ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः ॥
					 
					
						ततः स गौतमगृहं प्रविवेश द्विजोत्तमः ।
						गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ ॥
					 
					
						चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम् ।
						रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम् ॥
					 
					
						तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षमागतम् ।
						अभिज्ञाय द्विजो व्रीडन्निदं वाक्यमथाब्रवीत् ॥
					 
					
						किमिदं कुरुपे मोहाद्विप्रस्त्वं हि कुलोद्भवः ।
						मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥
					 
					
						पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान् ।
						येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥
					 
					
						अवबुध्यात्मनाऽऽत्मानं सत्वं शीलं श्रुतं दमम् ।
						अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥
					 
					
						स एवमुक्तः सुहृदा तेन तत्र हितैपिणा ।
						प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तबत् ॥
					 
					
						निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम् ।
						वित्तार्थमिह संप्राप्तं विद्धि मां द्विजसत्तम ॥
					 
					
						त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज ।
						अध्वानं सह यास्यावः श्वो वसस्वाद्य शर्वरीम् ॥
					 
					
						स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन् ।
						क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वनि आपद्धर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥ 
					 12-167-3 ब्रह्म वेदस्तदुक्तं कर्म च तद्विवर्जितः ग्रामं
						वृद्धियुतं वीक्ष्य प्राविशद्भैक्ष्यकाङ्क्ष्येति झ. पाठः ॥ 12-167-5 क्षयं
						गृहम् ॥ 12-167-6 वयोपेतां युवतीम् । सन्धिरार्षः ॥ 12-167-9 चक्राङ्गान्
						हंसान् ॥