अध्यायः 232
					 बलिशरीरान्निर्गन्त्या श्रिया शक्नं प्रति
						स्वनिर्गमनकारणाभिधानपूर्वकं ततः स्वस्य स्थानचतुष्टयवरणम् ॥ 1 ॥
						इन्द्रबलिसंवादश्च ॥ 2 ॥ 
					
					
						शतक्रतुरथापश्यद्बलेर्दीप्तां महात्मनः ।
						स्वरूपिणीं शरीराद्धि निष्क्रामन्तीं तदा श्रियम् ॥
					 
					
						तां दृष्ट्वा प्रभया दीप्तां भगवान्पाककशासनः ।
						विस्मयोत्फुल्लनयनो बलिं पप्रच्छ वासवः ॥
					 
					
						बले केयमपक्रान्ता रोचमाना शिखण्डिनी ।
						त्वत्तः स्थिता सकेयूरा दीप्यमाना स्वतेजसा ॥
						बलिरुवाच । 
					 
					
						न हीमामासुरीं वेद्मि न दैवीं च न मानुषीम् ।
						त्वमेनां पृच्छ वा मा वा यथेष्टं कुरु वासव ॥
						शक्र उवाच । 
					 
					
						का त्वं बलेरपक्रान्ता रोचमाना शिखण्डिनी ।
						अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते ॥
					 
					
						का त्वं तिष्ठसि मामेवं दीप्यमाना स्वतेजसा ।
						हित्वा दैत्यवरं सुभ्रु तन्ममाचक्ष्व पृच्छतः ॥
						श्रीरुवाच । 
					 
					
						न मां विरोचनो वेद नायं वैरोचनो बलिः ।
						आहुर्मां दुःसहेत्येवं विधित्सेति च मां विदुः ॥
					 
					
						भूतिर्लक्ष्मीति मामाहुः श्रीरित्येव च वासव ।
						त्वं मां शक्र न जानीषे सर्वे देवा न मां विदुः ॥
						शक्र उवाच । 
					 
					
						किमिदं त्वं मम कृते उताहो बलिनः कृते ।
						दुःसहे विजहास्येनं चिरसंवासिनी सती ॥
						श्रीरुवाच । 
					 
					
						नो धाता न विधाता मां विदधाति कथंचन ।
						कालस्तु शक्र पर्यागान्मैवं शक्रावमन्यथाः ॥
						शक्र उवाच । 
					 
					
						कथं त्वया बलिस्त्यक्तः किमर्थं वा शिखण्डिनि ।
						कथं च मां न जह्यास्त्वं तन्मे ब्रूहि शुचिस्मिते ॥
						श्रीरुवाच । 
					 
					
						सत्ये स्थिताऽस्मि दाने च व्रते तपसि चैव हि ।
						पराक्रमे च धर्मे च पराचीनस्ततो बलिः ॥
					 
					
						ब्रह्मण्योऽयं पुरा भूत्वा सत्यवादी जितेन्द्रियः ।
						अभ्यसूयन्ब्राह्मणान्वै उच्छिष्टश्चास्पृशद्धृतम् ॥
					 
					
						यज्ञशीलः सदा भूत्वा मामेव यजते स्वयम् ।
						ततः प्रहाय मूढात्मा कालेनोपनिपीडितः ॥
					 
					
						अपक्रान्ता ततः शक्र त्वयि वत्स्यामि वासव ।
						अप्रमत्तेन धार्याऽस्मि तपसा विक्रमेण च ॥
						शक्र उवाच । 
					 
					
						कोऽस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान् ।
						यस्त्वामेको विषहितुं शक्नुयात्कमलालये ॥
						श्रीरुवाच । 
					 
					
						नैव देवो न गन्धर्वो नासुरो नं च न्राक्षसः ।
						यो मामेको विषहितुं शक्तः कश्चित्पुरंदर ॥
						शक्र उवाच । 
					 
					
						तिष्ठेथा मयि नित्यं त्वं यथा तद्ब्रूहि मे शुभे ।
						तत्करिष्यामि ते वाक्यमृतं तद्वक्तुमर्हसि ॥
						शक्र उवाच । 
					 
					
						स्थास्यामि नित्यं देवेन्द्र यथा त्वयि निबोध तत् ।
						विधिना वेददृष्टेन चतुर्धा विभजस्व माम् ॥
						शक्र उवाच । 
					 
					
						अहं वै त्वां निधास्यामि यथाशक्ति यथाबलम् ।
						न तु मेऽतिक्रमः स्याद्वै सदा लक्ष्मि तवान्तिके ॥
					 
					
						भूमिरेव मनुष्येषु धारिणी भूतभाविनी ।
						सा ते पादं तितिक्षेत समर्था हीति मे मतिः ॥
						श्रीरुवाच । 
					 
					
						एष मे निहितः पादो योऽयं भूमौ प्रतिष्ठितः ।
						द्वितीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥
						शक्र उवाच । 
					 
					
						आप एव मनुष्येषु द्रवन्त्यः परिधारणे ।
						तास्ते पादं तितिक्षन्तामलमापस्तितिक्षितुम् ॥
						श्रीरुवाच । 
					 
					
						एष मे निहितः पादो योऽयमप्सु प्रतिष्ठितः ।
						तृतीयं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥
						शक्र उवाच । 
					 
					
						यस्मिन्वेदाश्च यज्ञाश्च यस्मिन्देवाः प्रतिष्ठिताः ।
						तृतीयं पादमग्निस्ते सुधृतं धारयिष्यति ॥
						श्रीरुवाच । 
					 
					
						एष मे निहितः पादो योऽयमग्नौ प्रतिष्ठितः ।
						चतुर्थं शक्र पादं मे तस्मात्सुनिहितं कुरु ॥
						शक्र उवाच । 
					 
					
						ये वै सन्तो मनुष्येषु ब्रह्मण्याः सत्यवादिनः ।
						तेते पादं तितिक्षन्तामलं सन्तस्तितिक्षितुम् ॥
						श्रीरुवाच । 
					 
					
						एष मे निहितः पादो योऽयं सत्सु प्रतिष्ठितः ।
						एवं हि निहितां शक्र भूतेषु परिधत्स्व माम् ॥
						शक्र उवाच । 
					 
					
						`भूमिशुद्धिं ततः कृत्वा अद्भिः संतर्पयन्ति ये ।
						भूतानि च यजन्त्यग्नौ तेषां त्वमनपायिनी ॥
					 
					
						ये क्रियाभिः सुरक्ताभिर्हेतुयुक्ताः समाहिताः ।
							ज्ञानवन्तो विवत्सायां लब्धा माद्यन्ति योगिनः ॥'
						
					 
					
						भूतानामिह यो वै त्वां मया विनिहितां सतीम् ।
						उपहन्यात्स मे द्वेष्यस्तथा शृण्वन्तु मे वचः ॥
						`भीष्म उवाच । 
					 
					
						तथेति चोक्त्वा सा भ्रष्टा सर्वलोकनमस्कृता ।
							वासवं पालयामास सा देवी कमलालया ॥'
						
					 
					
						ततस्त्यक्तः श्रिया राजा दैत्यानां बलिरब्रवीत् ॥
						
					 
					
						यावत्पुरस्तात्प्रतपेत्तावद्वै दक्षिणां दिशम् ।
						पश्चिमां तावदेवापि तथोदीचीं दिवाकरः ॥
					 
					
						तथा मध्यंदिने सूर्यो नास्तमेति यदा तदा ।
						पुनर्देवासुरं युद्धं भावि जेताऽस्मि वस्तदा ॥
					 
					
						सर्वलोकान्यदाऽऽदित्यो मध्यस्थस्तापयिष्यति ।
						तदा देवासुरे युद्धे जेताऽहं त्वां शतक्रतो ॥
						शक्र उवाच । 
					 
					
						ब्रह्मणाऽस्मि समादिष्टो न हन्तव्यो भवानिति ।
						तेन तेऽहं बले वज्रं न विमुञ्जामि मूर्धनि ॥
					 
					
						यथेष्टं गच्छ दैत्येन्द्र स्वस्ति तेऽस्तु महासुर ॥
						
					 
					
						आदित्यो नैव तपिता कदाचिन्मध्यतः स्थितः ।
						स्थापितो ह्यस्य समयः पूर्वमेव स्वयंभुवा ॥
					 
					
						अजस्रं परियात्येष सत्येनावतपन्प्रजाः ।
							अयनं तस्य षण्मासा उत्तरं दक्षिणं तथा ।
						
						येन संयाति लोकेषु शीतोष्णे विसृजन्रविः ॥
						
						भीष्म उवाच । 
					 
					
						एवमुक्तस्तु दैत्येन्द्रो बलिरिन्द्रेण भारत ।
						जगाम दक्षिणामाशामुदीचीं तु पुरंदरः ॥
					 
					
						इत्येतद्बलिना गीतमनहंकारसंज्ञितम् ।
						वाक्यं श्रुत्वा सहस्राक्षः स्वमेवारुरुहे तदा ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
						द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥ 232 ॥ 
					 12-232-31 वित्तं तीर्थादिपुण्यं यज्ञादिधर्मो विद्या चेति
						श्रियश्चत्वारः पादा भूमौ जलेऽग्नौ विद्वत्सु च निहितास्तेषामुपघातः
						स्तेयकामाशौचाशमैः ॥ 12-232-34 वैवस्वतमन्वन्तरमेवाष्टधा विभज्य तदन्ते
						सर्वपुर्युच्छेदे सति मन्वन्तरान्तरे बलिरिन्द्रो भविष्यतीति ज्ञेयम् ।
						तदिदमुक्तं यावत्पुरस्तात्प्रतपेदित्यादिना श्लोकत्रयेण ॥ 12-232-36 यदादित्यो
						ह्येकस्थ इति झ. ध. पाठः ॥