अध्यायः 314
भीष्मेण युधिष्ठिरंप्रति श्रेयःसाधनधर्मप्रतिपादकजनकानुशासनानुवादः ॥ 1 ॥
भीष्म उवाच । 
					मृगयां विचरन्कश्चिद्विजने जनकात्मजः ।
						वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥
					तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् ।
						पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥
					भगवन्किमिदं श्रेयः प्रेत्य चापीह वा भवेत् ।
						पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥
					सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः ।
						निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥
						ऋषिरुवाच । 
					मनसः प्रतिकूलानि प्रेत्य चेह नचेच्छसि ।
						भूतानां प्रतिकूलेभ्यो निवर्तस्य यतेन्द्रियः ॥
					धर्मः सदा हितः पुंसां धर्मश्चैवाश्रयः सताम् ।
						धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥
					स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि ।
						मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥
					यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना ।
						तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥
					असता धर्मकामेन विशुद्धं कर्म दुष्करम् ।
						सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥
					वने ग्राम्यसुखाचारो यथाग्राम्यस्तथैव सः ।
						ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥
					मनोवाक्कर्मगे धर्मे कुरु श्रद्धां समाहितः ।
						निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् ॥
					नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता ।
						प्रार्थितं ब्राह्मणेभ्यश्च सत्कृतं देशकालयोः ॥
					शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् ।
						क्रोधमुत्सृज्य दत्त्वाऽथ नानुतप्येन्न कीर्तयेत् ॥
					अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः ।
						योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥
					संस्कृता चैकपत्नी च जात्या योनिरिहेष्यते ।
						ऋग्यजुःसामगो विद्वान्षट््कर्मा पात्रमुच्यते ॥
					स एव धर्मः सोऽधर्मस्तं तं प्रति नरं भवेत् ।
						पात्राकर्मविशेषेण देशकालाववेक्ष्य च ॥
					लीलयाऽल्पं यथा गात्रात्प्रमृज्यात्तु रजः पुमान् ।
						बहुयत्नेन च महत्पापनिर्हरणं तथा ॥
					विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् ।
						तथा निर्हृतदोषस्य प्रेत्य धर्मः सुखावहः ॥
					मानसं सर्वभूतेषु वर्तते वै शुभाशुभम् ।
						अशुभेभ्यः समाक्षिप्य शुभेष्वेवावधारय ॥
					सर्वं सर्वेणा सर्वत्र क्रियमाणं च पूजय ।
						स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥
					अधृतात्मन्धृतौ तिष्ठ दुर्बद्धे बुद्धिमान्भव ।
						अप्रशान्तः प्रशाम्य त्वमप्राज्ञः प्राज्ञवच्चर ॥
					तेजसा शक्यते प्राप्तुमुपायः सहचारिणा ।
						इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥
					राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः ।
						ययातिः क्षीणपुण्योपि धृत्या लोकानवाप्तवान् ॥
					तपस्विनां धर्मवतां विदुषां चोपसेवनात् ।
						प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥
						भीष्म उवाच । 
					स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम् ।
						विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्दशाधिकत्रिशततमोऽध्यायः ॥ 314 ॥
12-314-5 वैतृष्णं को न गच्छति इति ध. पाठः । किं न पृच्छसीति थ. पाठः ॥ 12-314-15 एकस्यैव पत्नी एकपत्नी नत्वन्यपूर्वा । जात्याः पुत्रोत्पत्तेः योनिः स्यतानम् ॥
