अध्यायः 034
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति स्त्रीपुंसयोः समायोगे स्त्रियाएव
						सुखाधिक्ये सवादतया भङ्गास्वनोपाख्यानकथनम् ॥ 1 ॥ 
					
						युधिष्ठिर उवाच । 
					
						स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् ।
						एतस्मिन्संशये राजन्यथावद्वक्तुमर्हसि ॥
						भीष्म उवाच । 
					 
					
						अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
						भङ्गास्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥
					 
					
						पुरा भङ्गास्वनो नाम राजर्षिरतिधार्मिकः ।
						अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥
					 
					
						अग्निष्टुतं स राजर्षिरिन्द्रद्विष्टं महाबलः ।
						प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते ॥
					 
					
						इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः ।
							अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ।
						
						न चैवास्यान्तरं राजन्स ददर्श महात्मनः ॥
						
					 
					
						कस्य चित्त्वथ कालस्य मृगयां गतवान्नृपः ।
						इदमन्तरमित्येव शक्रो नृपममोहयत् ॥
					 
					
						एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः ।
						न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥
					 
					
						इतश्चेतश्च धावन्वै श्रमतृष्णार्दितो नृप ।
						सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ॥
					 
					
						सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥
						
					 
					
						अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः ।
						अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान् ॥
					 
					
						आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः ।
						चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥
					 
					
						आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् ।
						इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम् ॥
					 
					
						जातं महाबलानां मे तान्प्रवक्ष्यामि किन्नवहम् ।
						दारेषु चात्मकीयेषु पौरजानपदेषु च ॥
					 
					
						मृदुत्वं च तनुत्वं च पराधीनत्वमेव च ।
							`हासभावादि लावण्यं स्त्रीगुणाद्वा कुतूहलम् ।'
						
						स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥
						
					 
					
						व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥
						
					 
					
						पौरुषं विप्रनष्टं स्त्रीत्वं केनापि मेऽभवत् ।
						स्त्रीभावात्पुनरश्वं तं कथमारोढुमुत्सहे ॥
					 
					
						महता त्वथ खेदेन आरुह्याश्वं नराधिपः ।
							पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तमः ।
						
					 
					
						पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते ।
						किन्न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥
					 
					
						अथोवाच स राजर्षिः स्त्रीभूतो वदतांवरः ।
							मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ।
						
						उद्भान्तः प्राविशं घोरामटवीं दैवमोहितः ॥
						
					 
					
						अटव्यां च सुघोंरायां तृष्णार्तो नष्टचेतनः ।
						सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥
					 
					
						तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः ।
							`अतृप्त एव पुत्राणां दाराणां च धनस्य च ॥'
						
					 
					
						नामगोत्राणि चाभाव्य दाराणां मन्त्रिणां तथा ।
							आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्तिवोत्तमः ।
						
						सम्प्रीत्या भुज्यतांराज्यं वनं यास्यामि पुत्रकाः ॥
						
					 
					
						स पुत्राणां शतं राजा अभिषिच्य वनं गतः ।
						गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत ॥
					 
					
						तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम् ।
						अथ साऽऽदाय तान्सर्वान्पूर्वपुत्रानभाषत ॥
					 
					
						पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ।
						एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ॥
					 
					
						सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥
						
					 
					
						तान्दृष्ट्वा भातृभावेन भुञ्जानान्राज्यमुत्तमम् ।
							चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः ।
						
						उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥
						
					 
					
						ततो ब्राह्मणरुपेण देवराजः शतक्रतुः ।
						भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥
					 
					
						भ्रातृणां नास्ति सौभ्रात्रं येऽप्येकस्य पितः सुताः ।
							कश्यपस्य सुराश्चैव असुराश्व सुतास्तथा ।
						
					 
					
						राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥
							यूयं भङ्गास्वनापत्यास्तापसस्येतरे सुताः ।
						
					 
					
						युष्माकं भेदितास्ते तु युद्धेऽन्योन्यमपातयन् ।
						तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह ॥
					 
					
						ब्राह्मणच्छद्मनाऽभ्येत्य तामिन्द्रोऽथान्वपृच्छत ।
						केन दुःखेन संतप्ता रोदिषि त्वं वरानने ॥
					 
					
						ब्राह्म्णं तं ततो दृष्ट्वा सा स्त्री करणमब्रवीत् ।
						पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥
					 
					
						अहं राजाऽभव विप्र तत्र पूर्वं शतं मम ।
						समुत्पन्नं सुरूपाणां पुत्राणां ब्राह्मणोत्तम ॥
					 
					
						कदाचिन्मृगयां यात उद्धान्तो गहने वने ।
						अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ॥
					 
					
						पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥
						
					 
					
						स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना ।
						आश्रमे जनितं ब्रह्मन्नीतं तन्नगरं मया ॥
					 
					
						तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज ।
						एतच्छोचाम्यहं ब्रह्मन्दैवेन समभिप्लुता ॥
					 
					
						इन्द्रस्तां दुःशितां दृष्ट्वा अब्रवीत्परुषं वचः ॥
						
					 
					
						पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ।
							इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम् ।
						
						इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया ॥
						
					 
					
						इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः ।
							प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ।
						
						इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥
						
					 
					
						प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ॥
						
					 
					
						पुत्रास्ते कतमे राजञ्जीवन्त्वेतत्प्रचक्ष्व मे ।
						स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥
					 
					
						तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः ।
						स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव ॥
					 
					
						इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः ।
						पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥
					 
					
						स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् ।
						कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥
						स्त्र्युवाच । 
					 
					
						स्त्रियास्त्वभ्यधिकः स्नेहो न तता पुरुषस्य वै ।
						तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥
						भीष्म उवाच । 
					 
					
						एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह ।
						सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥
					 
					
						वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत ।
						पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसे ॥
						स्त्र्युवाच । 
					 
					
						स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव ।
						एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ॥
					 
					
						पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ।
						एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ॥
					 
					
						स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ।
						एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥
					 
					
						रमाभि चाधिकं स्त्रीत्वे सत्यं वै देवसत्तम ।
						स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप ॥
					 
					
						एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः ।
						एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥ 
					 7-34-1 स्पर्शः वैषयिकं सुखम् ॥ 7-34-4 तत्र ह्यग्निदेव
						स्तूयते । सच पुत्रप्रदः क्रतुः सचेन्द्रद्विष्टस्तत्रेन्द्रस्य
						प्राधान्याभावात् ॥ 7-34-5 यज्ञं कृतमिति शेषः ॥ 7-34-14 मृदुत्वादयः
						स्त्रीगुणा आगताः ॥ 7-34-15 कर्कशत्वादयः पुरुषगुणाः नष्टाः ॥ 7-34-23
						प्रत्यपद्यत भर्तृत्वेन स्वीकृतवती ॥ 7-34-27 स्त्रीत्वदानेन
						द्विगुणितपुत्रप्राप्तिरूप उपकारएव जातो न स्त्रीत्वकृतोऽपकार इत्यर्थः ॥ 7-34-40 इन्दद्विष्टेन अप्रिष्टुता यज्ञेन । धिष्ठितमधिष्ठितम् । क्रतूनिति
						शेषः ॥ 
					
					
					
					
					श्रीः