अध्यायः 005
					 सर्वयादवेषु निहतेषु बभ्रुदारुकाभ्यां सह बलभद्रमन्वेषसाणेन
						कृष्णेन वने वृक्षाश्रितस्य तस्य दर्शनम् ॥ 1 ॥ ततः कृष्णेन पाण्डिवान्प्रति
						दारुकप्रेषणम् ॥ 2 ॥ बलभद्रेण योगात्सर्पशरीरस्वीकारेण समुद्रप्रवेशः ॥ 3 ॥
						कृष्णेन शरीरत्यागाय योगेन शयनम् ॥ 4 ॥ व्याधेन मृगबुद्ध्या कृष्णस्य पादतले
						सायकेन गाढवेधनम् ॥ 5 ॥ कृष्णेन पश्चात्समीप मेत्य पश्चात्तापेन प्रणमतो
						व्याधस्य देवैः स्वर्गप्रापणम् ॥ 6 ॥ ततः शरीरत्यागपूर्वकं दिवं गतेन कृष्णेन
						देवैः पुष्पवर्षण पूर्वकं स्तुत्या प्रत्युद्गम्यमानेनि सता निजपरधामप्रवेशः ॥ 7 ॥ 
					
						वैशम्पायन उवाच । 
					
						ततो ययुर्दारुकः केशवश्च
							बभ्रुश्च रामस्य पदं पतन्तः ।
						
						अथापश्यन्राममनन्तवीर्यं
							वृक्षाश्रितं चिन्तयानं विविक्ते ।
						
					 
					
						ततः समासाद्य महानुभावः
							कृष्णस्तदा दारुकमन्वशासत् ।
						
						गत्वा कुरून्सर्वमिमं महान्तं
							पार्थाय शंसस्व वधं यदूनाम् ॥
						
					 
					
						ततोऽर्जुनः क्षिप्रमिहोपयातु
							श्रुत्वा मृतान्यादवान्ब्रह्मशापात् ।
						
						इत्येवमुक्तः स ययौ रथेन
							कुरूंस्तदा दारुको नष्टचेताः ॥
						
					 
					
						ततो गते दारुके केशवोथ
							दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् ।
						
						स्त्रियो भवान्रक्षितुं यातु शीघ्रं
							नैता हिंस्युर्दस्यवो वित्तलोभात् ॥
						
					 
					
						स प्रस्थितः केशवेनानुशिष्टो
							मदातुरो ज्ञातिवधार्दितश्च ।
						
						तं वै यातं सन्निधौ केशवस्य
							त्वरन्तमेकं सहसैव बभ्रूम् ।
							ब्रह्मानुशप्तमवधीन्महद्वै
							कूटे युक्तं मुसलं लुब्धकस्य ॥
						
					 
					
						ततो दृष्ट्वा निहतं बभ्रुमाह
							कृष्णेऽग्रजं भ्रातरमुग्रतेजाः ।
						
						हहैव त्वं मां प्रतीक्षस्व राम
							यावत्स्त्रियो ज्ञातिवशाः करोमि ॥
						
					 
					
						ततः पुरीं द्वारवतीं पविश्य
							जनार्दनः पितरं प्राह वाक्यम् ।
						
						सर्वं भवान्रक्षतु नः समग्रं
							धनंजयस्यागमनं प्रतीक्षन् ॥
						
					 
					
						रामो वनान्ते प्रतिपालयन्मा-
							मास्तेऽद्याहं तेन समानमिष्ये ।
						
						दृष्टं मयेदं निधनं यदूनां
							राज्ञां च पूर्वं कुरुपुङ्गवानाम् ॥
						
					 
					
						नाहं विना यदुभिर्यादवानां
							पुरीमिमामशकं द्रष्टुमद्य ।
						
						तपश्चरिष्यामि निबोध तन्मे
							रामेणि सार्धं वनमभ्युपेत्य ॥
						
					 
					
						इतीदमुक्त्वा शिरसा च पादौ
							संस्पृश्य कृष्णस्त्वरितो जगाम ।
						
						ततो महान्निनदः प्रादुरासी-
							त्सस्त्रीकुमारस्य पुरस्य तस्य ॥
						
					 
					
						अथाब्रवीत्केशवः सन्निवर्त्य
							शब्दं श्रुत्वा योषितां क्रोशतीनाम् ।
						
						पुरीमिमामेष्यति सव्यसाची
							स वो दुःखान्मोचयिता नराग्र्यः ॥
						
					 
					
						ततो गत्वा केशवस्तं ददर्श
							रामं वने स्थितमेकं विविक्ते ॥
						
					 
					
						अथापश्यद्योगयुक्तस्य तस्य
							नागं मुखान्निस्सरन्तं महान्तम् ।
						
						श्वेतं ययौ सततः प्रेक्षमाणो
							महार्णवो येन महानुभावः ।
						
						सहस्रशीर्षः पर्वताभोगवर्ष्मा
							रक्ताननः स्वां तनुं तां विमुच्य ॥
						
					 
					
						संदृश्यन्तं सागरान्तं विशन्तं
							सम्यक्तदा सागरः प्रत्यगृह्णात् ।
						
						नागा दिव्याः सरितश्चैव पुण्याः
							कर्कोटको वासुकिस्तक्षकश्च ॥
						
					 
					
						पृथुश्रवा अरुणः कुञ्जरश्च
							मिश्री शङ्खः कुमुदः पुण्डरीकः ।
						
						तथा नागो धृतराष्ट्रो महात्मा
							ह्रादः क्राथः शितिपृष्ठो निकेतुः ॥
						
					 
					
						तथा नागौ चक्रमन्दातिषण्डौ
							नागश्रेष्ठो दुर्मखश्चांबरीषः ।
						
						स्वयं राजा वरुणश्चापि राज-
							न्प्रत्युद्गम्य स्वागतेनाभ्यनन्दन् ।
						
						तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः
							सङ्कर्षणं भूधरं शुद्धबुद्धिम् ॥
						
					 
					
						ततो गते भ्रातरि वासुदेवो
							जानन्सर्वा गतयो दिव्यदृष्टिः ।
						
						वने शून्ये विचरंश्चिन्तयानो
							भूमौ चाथ संविवेशाग्र्यतेजाः ॥
						
					 
					
						सर्वं तेन प्राक्तदा वित्तमासी-
							द्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात् ।
						
						दुर्वाससा पारसोच्छिष्टलिप्ते
							यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥
						
					 
					
						`कुलस्त्रीणां संवृतानां गवां च
							द्विजेन्द्राणां बलमादाय धर्मे ।
						
						योनिर्देवानां वरदो ब्रह्मदेवो
							गोविन्दाख्यो वासुदेवोऽथ नित्यः ॥
						
					 
					
						संचिन्तयन्नन्धकवृष्णिनाशं
							कुरुक्षयं चैव महानुभावः ।
						
						मेने ततः संक्रमणस्य कालं
							ततश्चकारेन्द्रियसन्निरोधम् ॥
						
					 
					
						यथा च लोकत्रयपालनार्थं
							दुर्वासवाक्यप्रतिपालनाय ।
						
						देवोपि सन्देहविमोक्षहेतो-
							र्निमित्तमैच्छत्सकलार्थतत्त्ववित् ॥
						
					 
					
						स सन्निरुद्धेन्द्रियवाङ्मनास्तु
							शिश्ये महायोगमुपेत्य कृष्णः ।
						
						जरोथ तं देशमुपाजगाम
							लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥
						
					 
					
						स केशवं योगयुक्तं शयानं
							मृगासक्तो लुब्धकः सायकेन ।
						
						जरोऽविध्यत्पादतले त्वरावां-
							स्तं चाभितस्तज्जिघृक्षुर्जगाम ॥
						
					 
					
						अथापश्यत्पुरुषं योगयुक्तं
							पीतांबरं लुब्धकोऽनेकबाहुम् ।
						
						मत्वाऽऽत्मानं त्वपराद्धं स तस्य
							पादौ जरो जगृहे शङ्कितात्मा ॥
						
					 
					
						आश्वासितः पुण्यफलेन भक्तया
							तथाऽनुतापात्कर्मणो जन्मनश्च ।
						
						दृष्ट्वा तथा देवमनन्तवीर्यं
							देवैस्स्वर्गं प्रातितस्त्यक्तदेहः ॥
						
					 
					
						गणैर्मुनीनां पूजितस्यत्र कृष्णो
							गच्छन्नूर्द्ध्वं व्याप्य लोकान्स लक्ष्म्या ॥
						
					 
					
						दिवं प्राप्तं वासवोऽथाश्विनौ च
							रुद्रादित्या वसवश्चाथ विश्वे ।
						
						प्रत्युद्ययुर्मुनयश्चापि सिद्धा
							गन्धर्वमुख्याश्च सहाप्सरोभिः ॥
						
					 
					
						ततो राजन्भगवानुग्रतेजा
							नारायणः प्रभवश्चाव्ययश्च ।
						
						योगाचार्यो रोदसी व्याप्य लक्ष्म्या
							स्थानं प्राप स्वं महात्माऽप्रमेयम् ॥
						
					 
					
						ततो देवैर्ऋषिभिश्चापि कृष्णः
							समागतश्चारणैश्चैव राजन् ।
						
						गन्धर्वाग्र्यैरप्सरोभिर्वराभिः
							सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥
						
					 
					
						तं वै देवाः प्रत्यनन्दन्त राज-
							न्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम् ।
						
						तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः
							प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत् ॥
						
					 
					
						`नमोनमस्ते भगवञ्शार्ङ्गधन्व-
							न्धर्मस्थित्या प्रादुरासीर्धरायाम् ।
						
						कंसाख्यादीन्देवशत्रूंश्च सर्वा-
							न्हत्वा भूमिः स्थापिता भारतप्ता ॥
						
					 
					
						दिव्यं स्थानमजरं चाप्रमेयं
							दुर्विज्ञेयं चागमैर्गम्यमग्र्यम् ।
						
						गच्छ प्रभो रक्ष चार्तिं प्रपन्ना-
							न्कल्पेकल्पे जायमानांश्च मर्त्यान् ॥
						
					 
					
						इत्येवमुक्त्वा देवसंघोऽनुगम्य
							श्रिया युक्तं पुष्पवृष्ट्या ववर्ष ।
						
						वाणी चासीत्संश्रिता रूपिणी सा
							भानोर्मध्ये प्रविश त्वं तु राजन् ॥
						
					 
					
						भुजैश्चतुर्भिः समुपेतं ममेदं
							रूपं विशिष्टं जीवितं संस्थितं च ।
						
						भूमौ गतं पूजयताप्रमेयं
							सदा हि तस्मिन्निवसामीति देवाः ॥
						
					 
					
						देवा निवृत्तास्तत्पदं नाप्नुवन्तो
							बुद्ध्या देवं संस्मरन्तः प्रतीताः ।
						
						ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः
							शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः ॥ ॥
					 
					 इति श्रीमन्महाभारते मौसलपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥ 
					 7-5-1 पतन्तः शीघ्रं गच्छन्तः ॥ 7-5-2 वधं मधूनामिति क.ट.
						पाठः ॥ 7-5-4 वित्तभावात् इति ट.पाठः ॥ 7-5-5 कूटे लोहमुद्गरे युक्त बद्ध भुसलं
						ब्राह्मणशप्तं बभ्रुं स्वयमेव निपत्यावधीत् ॥ 7-5-7 स्त्रियो भवान्रक्षत्विति
						झ.पाठः ॥ 7-5-13 महार्णवे येन इति क.ट.पाठः ॥ 
					
					
					
					
					श्रीः