अध्यायः 072
					
					 स्वर्गंप्रत्यागतात्कचात्संजीविन्यध्ययनेन देवानां कृतार्थता ॥ 1 ॥ शुक्रवृषपर्वणोर्विरोधोत्पादनार्थमिन्द्रकृतं कन्यानां वस्त्रमिश्रणम् ॥ 2 ॥ वस्त्रमिश्रणेन शर्मिष्ठादेवयान्योर्विरोधः ॥ 3 ॥ शर्मिष्ठया कूपे
						प्रक्षिप्ताया देवयान्या ययातिना कूपादुद्धरणम् ॥ 4 ॥ शुक्रस्य कूपसमीपागमनं
						देवयानीसान्त्वनं च ॥ 5 ॥ 
					
					
						कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।
						कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥
					 
					
						सर्व एव समागम्य शतक्रतुमथाब्रुवन् ।
						कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा ।
						तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः ॥
					 
					
						क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे ।
						वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥
					 
					
						ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।
						वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः ॥
					 
					
						तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा ।
						व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥
					 
					
						ततस्तयोर्मिथस्तत्र विरोधः समजायत ।
						देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥
						देवयान्युवाच । 
					 
					
						कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि ।
						समुदाचारहीनाया न ते साधु भविष्यति ॥
						सर्मिष्ठोवाच । 
					 
					
						आसीनं च शयानं च पिता ते पितरं मम ।
						स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥
					 
					
						याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः ।
						सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
					 
					
						आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि ।
						अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥
					 
					
						लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ।
							`प्रतिकूलं वदसि चेदितःप्रभृति याचकि ॥'
						
						वैशंपायन उवाच । 
					 
					
						समुच्छ्रयं देवयानीं गतां सक्तां च वाससि ।
							शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत् ।
						
						हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ॥
						
					 
					
						अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ।
							`प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता ।'
						
						अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥
						
					 
					
						श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ।
						स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ॥
					 
					
						ददर्श राजा तां तत्र कन्यामग्निशिखामिव ।
						तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ॥
					 
					
						सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ।
						का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला ॥
					 
					
						दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ।
						कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते ॥
					 
					
						दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे ।
						
						देवयान्युवाच ।
						योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ॥
						
					 
					
						तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ।
						एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ॥
					 
					
						समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ।
						जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ॥
					 
					
						तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ।
						
						वैशंपायन उवाच ।
						तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः ॥
						
					 
					
						गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ।
						उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ॥
						`ययातिरुवाच । 
					 
					
						गच्छ भद्रे यथाकामं न भयं विद्यते तव ।
						इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् ॥
					 
					
						उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे ।
						गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥
					 
					
						इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः ।
						त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥
					 
					
						सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे ।
						तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि ॥
						देवयान्युवाच । 
					 
					
						यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप ।
						त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि ॥
						वैशंपायन उवाच । 
					 
					
						आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ।
						गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता ॥
					 
					
						क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता ।
						ततश्चिरायमाणायां दुहितर्यथ भार्गवः ॥
					 
					
						संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः ।
						धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम् ॥
					 
					
						इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता ।
						यत्रयत्र सशीभिः सा गता पदममार्गत ॥
					 
					
						सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् ।
						वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत् ॥
					 
					
						एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् ।
						उवाच शोकसंतप्ता घूर्णिकामागतां पुरः' ॥
						देवयान्युवाच । 
					 
					
						त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः ॥
						
					 
					
						नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः ।
						
						वैशंपायन उवाच ।
						सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम् ॥
						
					 
					
						दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना ।
						आचचक्षे महाप्राज्ञं देवयानीं वने हताम् ॥
					 
					
						शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ।
						श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ॥
					 
					
						त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ।
						दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ॥
					 
					
						बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ।
						आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ॥
					 
					
						मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ।
						
						देवयान्युवाच ।
						निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ॥
						
					 
					
						शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः ॥
						सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥
					 
					
						एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ।
						वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥
					 
					
						स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः ।
						अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
					 
					
						इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः ।
						क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥
					 
					
						यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः ।
						प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया ॥
					 
					
						`उक्ताप्येवं भृशं मां सा निगृह्य विजने वने ।
							कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत् ॥'
						
						शुक्र उवाच । 
					 
					
						स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः ।
						अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥
					 
					
						वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः ।
						अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥
					 
					
						`जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम् ।
						मृतः संजीवते जन्तुर्यया कमललोचने ॥
					 
					
						कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः ।
						ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम् ॥
					 
					
						तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि ।
						क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः' ॥
					 
					
						यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि ।
						तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा ॥
					 
					
						अहं जलं विमुञ्चामि प्रजानां हितकाम्यया ।
						पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते ॥
						वैशंपायन उवाच । 
					 
					
						एवं विषादमापन्नां मन्युना संप्रपीडिताम् ।
						वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥ 
					 1-72-3 प्रचक्राम भूतलं प्रतीति शेषः ॥ 1-72-8 समुदाचारः
						सदाचारः ॥ 1-72-11 आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना संतापं प्राप्नुहि ।
						विदुन्वस्व पांसुषु लुण्ठनादिना । द्रुह्य द्रोहं चिरकालिकं क्रोधं कुरु ।
						कुप्यस्व सद्यः परानिष्टफलो यत्नः कोपस्तं कुरु । रिक्ता दरिद्रा ॥ 1-72-12
						प्रतियोद्धारं प्रहर्तारम् ॥ 1-72-15 युग्या रथवाहकाः । हयाः केवलाश्वाः । उदकं
						पीयतेस्मादित्युदपानं कूपः ॥ 1-72-23 अवटाद्गर्तात् ॥ 1-72-34 घूर्णिकां
						दासीम् ॥ 1-72-37 हतां ताडिताम् ॥ 1-72-40 नियच्छन्ति प्रयच्छन्ति
						प्राप्नुवन्तीति भावः ॥ 1-72-41 एतदेवाह मन्ये इति । निष्कृतिः फलभोगेन
						निरसनम् ॥ 1-72-45 इदं पूर्वोक्तम् ॥ 1-72-49 नाहुषो ययातिः । मम ऐश्वरं
						निर्द्वन्द्वमप्रतिपक्षं बलमस्ति ॥ द्विसप्ततितमोऽध्यायः ॥ 72 ॥