अध्यायः 075
					
					 मृगयार्थं गतस्य ययातेः पुनर्देवयानीसमागमः ॥ 1 ॥ शुक्राज्ञया
						तयोर्विवाहः ॥ 2 ॥ देवयानीशर्मिष्ठायां सह ययातेः स्वपुरप्रवेशः ॥ 3 ॥ 
					
					
						अथ दीर्घस्य कालस्य देवयानी नृपोत्तम ।
						वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥
					 
					
						तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा ।
						तमेव देशं संप्राप्ता यथाकामं चचार सा ॥
					 
					
						ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ।
						क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीं ॥
					 
					
						खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ।
						पुनश्च नाडुषो राजा मृगलिप्सुर्यदृच्छया ॥
					 
					
						तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः ।
						ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः ॥
					 
					
						पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ।
							आसनप्रवरे दिव्ये सर्वरत्नविभूषिते ।
						
						उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥
						
					 
					
						रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम् ।
						`आसनाच्च ततः किंचिद्विहीनां हेमभीषिताम् ॥
					 
					
						असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम् ।
						ददर्श पादौ विप्रायाः संवहन्तीमनिन्दिताम् ॥
					 
					
						गायन्त्योऽथ प्रनृत्यन्त्यो वादयन्त्योऽथ भारत ।
							दृष्ट्वा ययातिमतुलं लज्जयाऽवनताः स्थिताः ॥'
						
						ययातिरुवाच । 
					 
					
						द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते ।
							गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे ।
						
						देवयान्युवाच । 
					 
					
						आख्यास्याम्यहमादत्स्व वचनं मे नराधिप ।
						शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ॥
					 
					
						इयं च मे सखी दासी यत्राहं तत्र गामिनी ।
						दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥
						ययातिरुवाच । 
					 
					
						कथं तु ते सखी दासी कन्येयं वरवर्णिनी ।
						असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे ॥
					 
					
						`नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
						नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥
					 
					
						श्रीरिवायतपद्माक्षी सर्वलक्षणशोभना ।
						असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता ॥
					 
					
						दैवेनोपहता सुभ्रूरुताहो तपसापि वा ।
						अन्यथैषाऽनवद्याङ्गी दासी नेह भविष्यति ॥
					 
					
						अस्या रूपेण ते रूपं न किंचित्सदृशं भवेत् ।
							पुरा दुश्चरितेनेयं तव दासी भवत्यहो ॥'
						
						देवयान्युवाच । 
					 
					
						सर्व एव नरश्रेष्ठ विधानमनुवर्तते ।
						विधानविहितं मत्वा मा विचित्राः कथाःकृथाः ॥
					 
					
						राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च ।
						को नाम त्वं कुतश्चासि कस्य पुत्रश्च शस मे ॥
						ययातिरुवाच । 
					 
					
						ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः ।
						राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥
						देवयान्युवाच । 
					 
					
						केनास्यर्थेन नृपते इमं देशमुपागतः ।
						जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया ॥
						ययातिरुवाच । 
					 
					
						मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः ।
						बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि ॥
						देवयान्युवाच । 
					 
					
						द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह ।
						त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव ॥
						`वैशंपायन उवाच । 
					 
					
						असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा ।
						शर्मिष्ठा महिषी मह्यमिति मत्वा वचोऽब्रवीत्' ॥
						ययातिरुवाच । 
					 
					
						विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि ।
						अविवाह्या हि राजानो देवयानि पितुस्तव ॥
					 
					
						`परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा ।
						अवरा भिक्षुकाऽस्वस्था अगम्याः कीर्तिता बुधैः ॥
						देवयान्युवाच । 
					 
					
						संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम् ।
							`अन्यत्वमस्ति न तयोरेकान्ततरमास्थिते ।'
						
						ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥
						
						ययातिरुवाच । 
					 
					
						एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने ।
						पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः ॥
						देवयान्युवाच । 
					 
					
						पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा ।
						तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ॥
					 
					
						कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् ।
						गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥
						ययातिरुवाच । 
					 
					
						क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।
						दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता ॥
						देवयान्युवाच । 
					 
					
						कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् ।
						दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥
						ययातिरुवाच । 
					 
					
						एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
						हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥
					 
					
						दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम ।
						अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥
						देवयान्युवाच । 
					 
					
						दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया ।
						आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥
					 
					
						`तिष्ठ राजन्मुहूर्तं च प्रेषयिष्याम्यहं पितुः ।
							गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय ।
						
						स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम्' ॥
						
						वैशंपायन उवाच । 
					 
					
						त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः ।
						सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥
					 
					
						श्रुत्वैव च स राजानं दर्शयामास भार्गवः ।
							दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः ।
						
						ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ॥
						
						देवयान्युवाच । 
					 
					
						राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् ।
							नान्यपूर्वगृहीतं मे तेनाहमभया कृता ।
						
						नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥
						
						शुक्र उवाच । 
					 
					
						अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः ।
						कचशापात्त्वया पूर्वं नान्यद्भवितुमर्हति ॥
					 
					
						वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया ।
							स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसंकरात् ।
						
						गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥
						
						ययातिरुवाच । 
					 
					
						अधर्मो न स्पृशेदेष महान्मामिह भार्गव ।
						वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥
						शुक्र उवाच । 
					 
					
						अधर्मात्त्वां विमुञ्चामि शृणु त्वं वरमीप्सितम् ।
						अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते ॥
					 
					
						वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् ।
						अनया सह संप्रीतिमतुलां समवाप्नुहि ॥
					 
					
						इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी ।
						संपूज्या सततं राजन्मा चैनां शयने ह्वयेः ॥
					 
					
						रहस्येनां समाहूय न वदेर्न च संस्पृशेः ।
						वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् ।
						शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम् ॥
					 
					
						लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम् ।
						द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह ॥
					 
					
						संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः ।
						जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥ 
					 1-75-3 मधुमाधवीं मधुवृक्षमदिराम् ॥ 1-75-18 विधानं दैवं
						अनुवर्तते अनुसृत्यास्ति ॥ 1-75-21 अर्थेन कार्येण । वारिजं मीनं पद्मादि वा ॥ 1-75-22 अनुयुक्तोस्मि पलायिते मृगे श्रान्तोस्मि ॥ 1-75-27 संसृष्टं
						उच्छिन्नस्य क्षत्रस्य ब्राह्मणवीर्यादेव पुनरुद्भवाद्ब्रह्मणा क्षत्रं
						संसृष्टम् । क्षत्रियकन्यासु लोपामुद्रादिषु
						ब्राह्मणानामुत्पत्तिदर्शनात्क्षत्रेण ब्रह्म संहितं मिश्रम् ॥ 1-75-28
						एकस्येश्वरस्य देहो देहावयवाः मुखबाहूरुपादास्तदुद्भवाः ॥ 1-75-35 मा मां भयं
						क्षत्रियेण ब्राह्मणीपरिणयनदोषजम् ॥ 1-75-39 दुर्गमे संकटे ॥ 1-75-43 ईप्सितं
						वरं च वृणीध्वेत्युक्तोऽपीदानीं न वृतवान् पश्चात्त्वन्यत्र
						जरासंक्रमणसामर्थ्यरूपः शुक्रेणैव स्वप्रतिज्ञासिद्धये दत्त इति ध्येयम् ॥
						पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥