अध्यायः 094
					
					 समयबन्धपूर्वकं गान्धर्वेण विवाहेन शकुन्तलापाणिग्रहणम् ॥ 1 ॥
						कण्वस्य स्वाश्रमं प्रति प्रत्यागमनम् ॥ 2 ॥ कण्वशकुन्तलासंवादः ॥ 3 ॥
						कण्वाच्छकुन्तलाया वरलाभः ॥ 4 ॥ 
					
					
						सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।
						भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥
					 
					
						सुवर्णमालां वासांसि कुण्डले परिहाटके ।
						नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥
					 
					
						आहरामि तवाद्याहं निष्कादीन्यजिनानि च ।
						सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥
					 
					
						गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि ।
						विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥
						शकुन्तलोवाच । 
					 
					
						फलाहारो गतो राजन्पिता मे इत आश्रमात् ।
						मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥
					 
					
						`पिता हि मे प्रभुर्नित्यं दैवतं परमं मम ।
						यस्मै मां दास्यति पिता स मे भर्ता भविष्यति ॥
					 
					
						पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
						पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
					 
					
						समन्यमाना राजेन्द्र पितरं मे तपस्विनम् ।
						अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ॥
					 
					
						दुष्यन्त उवाच । 
						मामैवं वद कल्याणि तपोराशिं दमात्मकम् ।
						
						शकुन्तलोवाच ।
						मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥
						
					 
					
						मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् ।
						अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥
					 
					
						राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् ।
						क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान् ॥
						दुष्यन्त उवाच । 
					 
					
						जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते ।'
							इच्छामि त्वां वरारोहे भजमानामनिन्दिते ।
						
						त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥
						
					 
					
						आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।
						आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥
					 
					
						अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।
						ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ॥
					 
					
						गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।
						तेषां धर्म्यान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥
					 
					
						प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।
						षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥
					 
					
						राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः ।
						पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह ॥
					 
					
						पैशाच आसुरश्चैव न कर्तव्यौ कदाचन ।
						अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥
					 
					
						गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः ।
						पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥
					 
					
						सा त्वं मम सकामस्य सकामा वरवर्णिनी ।
						गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥
						शकुन्तलोवाच । 
					 
					
						यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम ।
						प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥
					 
					
						सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः ।
						मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः ॥
					 
					
						युवराजो महाराज सत्यमेतद्ब्रवीमि ते ।
						यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया ॥
						वैशंपायन उवाच । 
					 
					
						`तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः ।
						दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥
						शकुन्तलोवाच । 
					 
					
						ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः ।
						वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥
					 
					
						लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु ।
						सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः ॥
					 
					
						यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् ।
						तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव ॥
					 
					
						वैवाहिकानि चान्यानि समस्तानीह पार्थिव ।
						दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥
						वैशंपायन उवाच ।' 
					 
					
						एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।
						अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥
					 
					
						यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते ।
						एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ॥
					 
					
						`पुरोहितं समाहूय वचनं युक्तमब्रवीत् ।
						राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ॥
					 
					
						क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः ।
						तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु ॥
					 
					
						एवमुक्तो नृपतिना द्विजः परमयन्त्रितः ।
						शोभनं राजराजेति विधिना कृतवान्द्विजः ॥
					 
					
						शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः ।'
							जग्राह विधिवत्पाणावुवास च तया सह ॥
						
					 
					
						विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः ।
						प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥
					 
					
						`त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह ।
						शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः ॥
					 
					
						मूकाश्चैव किराताश्च कुब्जा वामनकैः सह ।
						सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥
					 
					
						शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति ।
						तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते ॥
					 
					
						अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् ।
						सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ।
						परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥
					 
					
						प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे ।
						शकुन्तला सा सुमुखी पपात नृपपादयोः ॥
					 
					
						तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः ।
							शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥'
						
					 
					
						इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।
						मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव ॥
					 
					
						भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति ।
							तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् ।
						
						एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥
						
					 
					
						ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत् ।
						शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥
					 
					
						`शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः ।
						ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् ॥
					 
					
						प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः ।
						न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम् ॥
					 
					
						शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत ।
						तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ ॥
					 
					
						अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता ।
						स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥
						कण्व उवाच । 
					 
					
						सव्रीडैव च दीर्घायुः पुरेव भविता न च ।
						वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥
						वैशंपायन उवाच । 
					 
					
						ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् ।
						निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥
					 
					
						ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा ।
						शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम् ॥
					 
					
						ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा ।
						सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥
						शकुन्तलोवाच । 
					 
					
						राजा ताताजगामेह दुष्यन्त इलिलात्मजः ।
						मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥
					 
					
						तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः ।
						अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ॥
					 
					
						अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि ।
						
						वैशंपायन उवाच ।
						चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ॥
						
					 
					
						ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः ।
						उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः ॥
						कण्व उवाच । 
					 
					
						एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा ।
						त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम्' ॥
					 
					
						पुंसा सह समायोगो न स धर्मोपघातकः ।
						न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् ॥
					 
					
						क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते ।
						सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते ॥
					 
					
						`किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि ।'
							धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः ॥
						
					 
					
						अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले ।
						महात्मा जनिता लोके पुत्रस्तव महायशाः ॥
					 
					
						स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम् ।
						परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ॥
					 
					
						भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ।
						प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि ॥
					 
					
						ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते ।
							सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे ।
						
						गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥
						
						शकुन्तलोवाच । 
					 
					
						मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः ।
							मम चैव पतिर्दृष्टो देवतानां समक्षतः ।
						
						तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥
						
						वैशंपायन उवाच । 
					 
					
						इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी ।
						ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा ॥
					 
					
						शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया ।
						`एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥
					 
					
						पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम् ॥
						
						कण्व उवाच । 
					 
					
						अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः ।
						पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय ॥
						वैशंपायन उवाच । 
					 
					
						इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् ।
							स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥' ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥ 
					 1-94-4 गान्धर्वो वरवध्वोरैकमत्येन कृतः ॥ 1-94-5 फलाहारः
						फळन्याहर्तुं गतः ॥ 1-94-17 पञ्चानां ब्राह्मादीनां त्रयो
						ब्राह्मदैवप्राजापत्या धर्म्याः । द्वावर्षासुरो कन्याशुल्कग्रहणादधर्म्यौ ॥ 1-94-18 तयोरप्यासुरः पैशाचवदत्यन्तं हेय इत्याह । पैशाच इति ॥ 1-94-19
						परिशेषाद्गन्धर्वराक्षसौ क्षत्रियस्य धर्म्यावित्याह गान्धर्वेति ॥ 1-94-42
						शपेयं शपथं कुर्याम् ॥ चतुर्नवतितमोऽध्यायः ॥ 94 ॥