अध्यायः 212
					
					 इन्द्रसेनापरनाम्न्या नालायन्या उपाख्यानारम्भः-नालायन्या
						स्थविरस्य पत्युर्मौद्गल्यस्य आराधनम् ॥ 1 ॥ तुष्टेन मौद्गल्येन
						नालायनीप्रार्थनयाऽऽत्मनः पञ्चरूपस्वीकारेण तस्यां रमणम् ॥ 2 ॥ तयोः
						स्वर्गादिलोकेषु नानारूपेण रमणम् ॥ 3 ॥ सैव नालायनी तव दुहिता जातेति द्रुपदं
						प्रति व्यासस्योक्तिः ॥ 4 ॥ 
					
					
						मा भूद्राजंस्तव तापो मनस्थः
							पञ्चानां भार्या दुहिता ममेति ।
						
						मातुरेषा प्रार्थिता स्यात्तदानीं
							पञ्चानां भार्या दुहिता ममेति ॥
						
					 
					
						याजोपयाजौ धर्मरतौ तपोभ्यां
							तौ चक्रतुः पञ्चपतित्वमस्याः ।
						
						तत्पञ्चभिः पाण्डुसुतैरवाप्ता
							भार्या कृष्णा मोदतां वै कुलं ते ॥
						
					 
					
						लोके नान्यो विद्यते त्वद्विशिष्टः 
						सर्वारीणामप्रधृष्योऽसि राजन् ।
							भूयस्त्विदं शृणु मे त्वं विशोको
							यथाऽऽगतं पञ्चपत्नीत्वमस्याः ॥
						
					 
					
						एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम् ।
						आराधयामास तदा कुष्ठिनं तमनिन्दिता ॥
					 
					
						त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् ।
						सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम् ॥
					 
					
						स्थविरं विकृताकारं शीर्यमाणनखत्वचम् ।
						उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम् ॥
					 
					
						ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत ।
						अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता ॥
					 
					
						तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा ।
						वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा ॥
						मौद्गल्य उवाच । 
					 
					
						नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः ।
						न च दुर्गन्धवदनो न कृशो न च लोलुपः ॥
					 
					
						कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् ।
						वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि ॥
						व्यास उवाच । 
					 
					
						सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् ।
						भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह ॥
						नालायन्युवाच । 
					 
					
						पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः ।
						रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः ॥
					 
					
						तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः ।
						स पञ्चधा तु भूत्वा तां रमयामास सर्वतः ॥
					 
					
						नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम् ।
						आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः ॥
					 
					
						स चचार यथाकामं कामरूपवपुः पुनः ।
						यदा ययौ दिवं चापि तत्र देवर्षिभिः सह ॥
					 
					
						चचार सोऽमृताहारः सुरलोके चचार ह ।
						पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि ॥
					 
					
						महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया ।
						सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः ॥
					 
					
						पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत् ।
						आकाशगङ्गामाप्लुत्य तया सह तपोधनः ॥
					 
					
						रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः ।
						गिरिरूपधरो योगी स महर्षिस्तदा पुनः ॥
					 
					
						तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी ।
						यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः ॥
					 
					
						लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती ।
						पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः ॥
					 
					
						सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह ।
						ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत ॥
					 
					
						तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः ।
						विरराम च सा चैव दैवयोगेन भामिनी ॥
					 
					
						स च तां तपसा देवीं रमयामास योगतः ।
						एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी ॥
					 
					
						अरुन्धतीव सीतेव बभूवातिपतिव्रता ।
						दमयन्त्याश्च मातुः स विशेषमधिकं ययौ ॥
					 
					
						एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा ।
						सा वै नालायनी जज्ञे दैवयोगेन केनचित् ॥
					 
					
						राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा ।
						तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन ॥
					 
					
						तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥ 
					 1-212-1 मातुः मात्रा । स्यात् अभूत् ॥ 1-212-10 कथं केन
						प्रकारेण ॥ 1-212-22 स्कन्धेन मानुषादिदेहेन ॥ द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥