अध्यायः 044
परीक्षिन्मरणोत्तरं तत्पुत्रस्य जनमेजयस्य राज्याभिषेकः ॥ 1 ॥ वपुष्टमाविवाहः ॥ 2 ॥
सौतिरुवाच ।
तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् ।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥
तं तु नागं ततो दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः ।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम् ॥
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥
ततस्तु ते तद्गृहमग्निना वृतं
प्रदीप्यमानं विषजेन भोगिनः ।
भयात्परित्यज्य दिशः प्रपेदिरे
पपात तच्चाशनिताडितं यथा ॥
ततो नृपे तक्षकतेजसाहते
प्रयुज्य सर्वाः परलोकसत्क्रियाः ।
शुचिर्दिजो राजपुरोहितस्तदा
तथैव ते तस्य नृपस्य मन्त्रिणः ॥
नृपं शिशुं तस्य सुतं प्रचक्रिरे
समेत्य सर्वे पुरवासिनो जनाः ।
नृपं यमाहुस्तममित्रघातिनं
कुरुप्रवीरं जनमेजयं जनाः ॥
स बाल एवार्यमतिर्नृपोत्तमः
सहैव तैर्मन्त्रिपुरोहितैस्तदा ।
शशास राज्यं कुरुपुंगवाग्रजो
यथाऽस्य वीरः प्रपितामहस्तथा ॥
ततस्तु राजानममित्रतापनं
समीक्ष्य ते तस्य नृपस्य मन्त्रिणः ।
सुवर्णवर्माणमुपेत्य काशिप
वपुष्टमार्थं वरयांप्रचक्रमुः ॥
ततः स राजा प्रददौ वपुष्टमां
कुरुप्रवीराय परीक्ष्य धर्मतः ।
स चापि तां प्राप्य मुदा युतोऽभव-
न्न चान्यनारीषु मनो दधे क्वचित् ॥
सरःसु फुल्लेषु वनेषु चैव
प्रसन्नचेता विजहार वीर्यवान् ।
तथा स राजन्यवरो विजह्रिवान्
यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥
वपुष्टमा चापि वरं पतिव्रता
प्रतीतरूपा समवाप्य भूपतिम् ।
भावेन रामा रमयांबभूव तं
विहारकालेष्ववरोधसुन्दरी ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥
1-44-2 दह्यमानं ततो दृष्ट्वा इति पाठान्तरम् ॥ 1-44-7 प्रपितामहो युधिष्ठिरः ॥ 1-44-8 वपुष्टमा काशिराजकन्या ॥ 1-44-11 वरं वरणीयम् । प्रतीतरूपा हृष्टरूपा ॥ चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥