अध्यायः 042

श्रीकृष्णस्याग्रपूजामसहमानानां शिरसि पदमाहितमिति सहदेववचनश्रवणेन शिशुपाल स्य कोपोदयः ॥ 1 ॥

`वैशम्पायन उवाच ॥

गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम् ।
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा ॥
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम् ।
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु ॥
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि ।
तस्मादभ्यर्चितोऽस्माभिः सर्वे संमन्तुमर्हथ ॥
यो वा सहते कश्चिद्राज्ञां सबलवाहनः ।
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम् ॥
एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे ।
वैशम्पायन उवाच ॥
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे ।
एवमुक्ते सुनीथस्य सहदेवेन केशवे ॥
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते ।
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् ॥
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान् ।
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः ॥
उवाच वदतां श्रेष्ठं इदं मतिमतां वरः । सहदेवेन राजानो यदुक्तं केशवं प्रति ।
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥