अध्यायः 081
दुर्योधनेन धृतराष्ट्रोक्तिप्रतिकूलभाषणम् ॥ 1 ॥
दुर्योधन उवाच ॥
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ॥
जानन्वै मोहयति मां नावि नौरिव संयता ।
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता ।
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः ॥
परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति ।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः ।
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ॥
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः ।
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि ॥
क्षत्रियस्य महाराज जये वृत्तिः समाहिता ।
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा ॥
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः ।
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ ॥
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते ।
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका ।
यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप ॥
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् ।
समुच्छ्रये यो यतते स राजन्परमो नयः ॥
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा ।
पूर्वावाप्तं हरन्त्यन्ये राजध्रमं हि तं विदुः ॥
अद्रोहसमंय कृत्वा चिच्छेद नमुचेः शिरः ।
शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी ॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते ।
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते ।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः ।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत ।
एष भारः सत्ववतां न यः शिरसि धिष्ठितः ॥
जन्मवृद्धिमिवार्थानां यो वृद्धिमाभिकाङ्क्षते ।
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः ॥
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति ।
अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि ॥
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते ।
वर्धन्ते पाण्डवा नित्यं वयं स्वस्थिरवृद्धयः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥
2-81-3 कृत्यं इदानीं कर्तव्यम् ॥ 2-81-14 अप्रवासिनं तीर्थाटनादिरहितम् ॥ 2-81-15 साधारणी तुल्या वृत्तिर्जीविका । एकामिषत्वमित्यर्थः ॥