अध्यायः 086

विदुरेण धृतराष्ट्रं प्रति दुर्योधननिन्दापूर्वकं द्यूतोपरमचोदनम् ॥ 1 ॥

वैशम्पायन उवाच ॥

एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि ।
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत् ॥
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत ।
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥
यद्वै पुरा जातमात्रो रुराव गोमायुवद्विस्वरं पापचेताः ।
दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः ॥
गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे ।
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥
मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते ।
आरुह्य तं मज्जति वा पतनं चाधिगच्छति ॥
सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते ।
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥
विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम् ।
पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया ॥
अन्धका यादवा भोजाः समेताः कंसमत्यजन् ।
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना ॥
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ।
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् ॥
निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम् । काकेनेमांश्चित्रवर्हाञ्शार्दूलान्क्रोष्टुकेन च ।
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः ।
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान् ॥
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान् । गृहे किल कृतावासाँल्लोभाद्राजा न्यपीडयत् ।
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप ॥
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ।
तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप ॥
मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा ।
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत ॥
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः । वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान् ।
मा गमः समुतामात्यः सबलश्च यमक्षयम् ॥
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत ।
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥
द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय ।
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम् ॥
प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः ।
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥
दुर्योधनो मदेनैव क्षेमं व्यपोहति ।
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः ॥
यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमत्य दृष्टिम् ।
नावं समुद्र इव बालनेत्रा- मारुह्य घोरे व्यसने निमज्जेत् ॥
दुर्योधनो ग्लहते पाण्डवेन प्रीयायसे त्वं जयतीति तच्च ।
अतिनर्मा जायते संप्रहारो यतो विनाशः समुपैति पुंसाम् ॥
आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः ।
युधिष्ठिरेण कलहस्तवाय- मचिन्तितोऽभिमतः स्वबन्धुना ॥
प्रातिपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम् ।
वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नः ॥
यदा मन्युं पाण्डवोऽजातशत्रु- र्न संयच्छेदक्षमदाभिभूतः ।
वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥
महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः ।
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं किं ते तत्स्याद्वसु विन्देह पार्थान् ॥
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः ।
यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान् ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

2-86-4 काव्यं कविना शुक्रेणोक्तां नीतिगिरम् ॥ 2-86-5 माध्विको मधुपण्यवान् । प्रपातं भृगुम् ॥ 2-86-8 नियोगाद्दैवयोगात् ॥ 2-86-10 चित्रवर्हान् मयूरान् ॥ 2-86-14 आयतिमुत्तरकालम् । तदात्वं सांप्रतम् । तत्तस्मात् । अर्थकामो धनकामः ॥ 2-86-15 पत्रिहा पक्षिहा ॥ 2-86-21 बालनेत्रामव्युत्पन्ननेतृकाम् ॥ 2-86-22 ग्लहते पणं करोति । प्रीयायसे अतिशयेन प्रीयसे ॥ 2-86-23 आकर्षो द्यूतम् ॥ 2-86-26 जयः अजयः ॥