अध्यायः 092
दुर्योधनवचनम् ॥ 1 ॥ दुर्योधनेन द्रौपदीं प्रति निजोरौ प्रदर्शिते भीमेन तद्भेदनप्रतिज्ञा ॥ 2 ॥ अर्जुनादिभिः कर्णादिहननप्रतिज्ञा ॥ 3 ॥ द्रौपद्या दुर्योधनादीनां शापदानसमये अन्तरिक्षात्पुष्पवृष्टिः ॥ 4 ॥
वैशम्पायन उवाच ॥
तथा तु दृष्ट्वा बहु तत्र देवीं
							रोरूयमाणां कुररीमिवार्ताम् ।
						
						नोचुर्वचः साध्वथवाऽप्यसाधु
							महीक्षितो धार्तराष्ट्रस्य भीताः ॥
						
					दृष्ट्वा तथा पार्थिवपुत्रपौत्रां-
							स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः ।
						
						स्मयन्निवेदं वचनं बभाषे
							पाञ्चालराजस्य सुतां तदानीम् ॥
						
						दुर्योधन उवाच ॥ 
					तिष्ठत्वयं प्रश्न उदारसत्वे
							भीमेऽर्जुने सहदेवे तथैव ।
						
						पत्यौ च ते नकुले याज्ञसेनि
							वदन्त्वेते वचनं त्वत्प्रसूतम् ॥
						
					अनीश्वरं विब्रुवन्त्वार्यमध्ये
							युधिष्ठिरं तव पाञ्चालि हेतोः ।
						
						कुर्वन्तु सर्वे चानृतं धर्मराजं
							पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥
						
					धर्मे स्थितो धर्मसुतो महात्मा
							स्वयं चेदं कथयत्विन्द्रकल्पः ।
						
						ईशो वा ते ह्यनीशोऽथवैष
							वाक्यादस्य क्षिप्रमेकं भजस्व ॥
						
					सर्वे हीमे कौरवेयाः सभायां
							दुःखान्तरे वर्तमानास्तवैव ।
						
						न विब्रुवन्त्यार्यसत्वा यथाव-
							त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥
						
						वैशम्पायन उवाच ॥ 
					ततः सभ्याः कुरुराजस्य तस्य
							वाक्यं सर्वे प्रशशंसुस्तथोच्चैः ।
						
						चेलावेधांश्चापि चक्रुर्नदन्तो
							हाहेत्यासीदपि चैवार्तनादः ॥
						
					श्रुत्वा तुं तद्वाक्यमनोहरं त-
							द्धर्षश्चासीत्कौरवाणां सभायाम् ।
						
						सर्वे चासन्पार्थिवाः प्रीतिमन्तः
							कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥
						
					युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः ।
						किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥
					किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः ।
						भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः ॥
					तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् ।
						प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम् ॥
					यद्येष गुरुरस्माकं धर्मराजो महामनाः ।
						न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥
					ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः ।
						मन्यते जितमात्मानं यद्येष विजिता वयम् ॥
					न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् ।
						मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥
					पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव ।
						नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥
					धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम् ।
						गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥
					धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव ।
						धार्तराष्टारानिमान्पापान्निष्पषेयं तलासिभिः ॥
						वैशम्पायन उवाच ॥ 
					तमुवाच तदा भीष्मो द्रोणो विदुर एव च ।
						क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि ॥
						कर्ण उवाच ॥ 
					त्रयः किलेमे ह्यधना भवन्ति ।
							दासः पुत्रश्चास्वतन्त्रा च नारी ।
						
						दासस्य पत्नी त्वधनस्य भद्रे
							हीनश्वरा दासधनं च सर्वम् ॥
						
					प्रविश्य राज्ञः परिवारं भजस्व
							तत्ते कार्यं शिष्टमादिश्यतेऽत्र ।
						
						ईशास्तु सर्वे तव राजपुत्रि
							भवन्ति वै धार्तराष्ट्रा न पार्थाः ॥
						
					अन्यं वृणीष्व पतिमाशु भामिनि
							यस्माद्दास्यं न लभसि देवनेन ।
						
						अवाच्या वै पतिषु कामवृत्ति-
							र्नित्यं दास्ये विदितं तत्तवास्तु ॥
						
					पराजितो नकुलो भीमसेनो
							युधिष्ठरः सहदेवार्जुनौ च ।
						
						दासीभूता त्वं हि वै याज्ञसेनि
							पराजितास्ते पतयो नैव सन्ति ॥
						
					प्रयोजनं जन्मनि किं न मन्यते
							पराक्रमं पौरुषं चैव पार्थटः ।
						
						पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां
							सभामध्ये यो व्यदेवीद््ग्लहेषु ॥
						
						वैशम्पायन उवाच ॥ 
					तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी
							भृशं निशश्वास तदाऽर्तरूपः ।
						
						राजानुगो धर्मपाशानुबद्धो
							दहन्निवैनं क्रोधसंरक्तदृष्टिः ॥
						
						भीम उवाच ॥ 
					नाहं कुप्ये सूतपुत्रस्य राज-
							न्नेष सत्यं दासधर्मः प्रदिष्टः ।
						
						किं विद्विषो वै मामेवं व्याहरेयु-
							र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥
						
						वैशम्पायन उवाच ॥ 
					भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा ।
						युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम् ॥
					भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने ।
						प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे ॥
					एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम् ।
						स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ॥
					कदलीदण्डसदृशं सर्वलक्षणसंयुतम् ।
						गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥
					अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव ।
						द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥
					भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते ।
						प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥
					पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः ।
						यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥
						वैशम्पायन उवाच ॥ 
					क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः ।
						वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः ॥
						विदुर उवाच ॥ 
					परं भयं पश्यत भीमसेना-
							त्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः ।
						
						दैवेरितो नूनमयं पुरस्ता-
							त्परोऽनयो भरतेषूदपादि ॥
						
					अतिद्यूतं कृतमिदं धार्तराष्ट्र
							यस्मात्स्त्रियं विवदध्वं सभायाम् ।
						
						योगक्षेमौ नश्यतो वः समग्रौ
							पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥
						
					इमं धर्मं कुरवो जानताशु
							ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत् ।
						
						इमां चेत्पूर्वं कितवोऽग्लहिष्य-
							दीशोऽभविष्यदपराजितात्मा ॥
						
					स्वप्ने यथैतद्विजितं धनं स्या-
							देवं मन्ये यस्य दीव्यत्यनीशः ।
						
						गान्धारराजस्य वचो निशम्य
							धर्मादस्मात्कुरवो माऽपयात ॥
						
						दुर्योधन उवाच ॥ 
					भीमस्य वाक्ये तद्वदेवार्जुनस्य
							स्थितोऽहं वै यमयोश्चैवमेव ।
						
						युधिष्ठिरं ते प्रवदन्त्वनीश-
							मथो दास्यान्मोक्षसे याज्ञसेनि ॥
						
						अर्जुन उवाच ॥ 
					ईशो राजा पूर्वमासीद््ग्लहे नः
							कुन्तीसुतो धर्मराजो महात्मा ।
						
						ईशस्त्वयं कस्य पराजितात्मा
							तज्जानीध्वं कुरवः सर्व एव ॥
						
						`कर्ण उवाच ॥ 
					दुश्शासन निबोधेदं वचनं वै प्रभाषितम् ।
							किमनेन चिरं वीर नयस्व द्रपदात्मजाम् ।
						
						दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ॥
						
						वैशम्पायन उवाच ॥ 
					ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् ।
						साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ॥
					ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात् ।
							प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ॥
							ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ॥
						
						द्रौपद्युवाच । 
					परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप ।
						परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल ॥
					धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् ।
							गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि ।
						
						पिरत्रायस्व मां भीरुं सुयोधनभयार्दिताम् ॥
						
					त्वमार्ये वीरजननि किं मां पश्यसि यादवीम् ।
						क्लिश्यमानामनार्येण न त्रायसिव वधूं स्वकाम् ॥
					यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत् ।
						हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ॥
					न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट् ।
							न चायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ॥
							धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ॥
						
						विदुर उवाच ॥ 
					शृणोमि वाक्यं तव राजपुत्रि
							नेमे पार्थाः किञ्चिदपि ब्रुवन्ति ।
						
						सा त्वं प्रियार्थं शृणु वाक्यमेत-
							द्यदुच्यते पापमतिः कृतघ्नः ॥
						
					सुयोधनः सानुचरः सुदुष्टः
							सहैव राजा निकृतः सूनुना च
						
						यद्येष वाचं महदुच्यमानां
							न श्रोष्यते पापमतिः सुदुष्टः ॥
						
						वैशम्पायन उवाच ॥ 
					इत्येवमुक्त्वा द्रुपदस्य पुत्रीं
							क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम् ।
						
					मा क्लिश्यतां वै द्रुपदस्य पुत्रीं
							मा त्वं चरीं द्रक्ष्यसि राजपुत्र ॥
						
						विदुर उवाच ॥ 
					यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम् ।
							अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः ।
						
						गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ॥
						
					भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च ।
						तस्मान्निवारय सुतं मा विनाशं विचिन्तय ॥
						वैशम्पायन उवाच ॥ 
					एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत् ।
						ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ॥
					अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः ।
						ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥
					ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम् ।
						वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ॥
					एतत्समीक्ष्यात्मनि चावमानं
							नियम्य मन्युं बलनान्स मानी ।
						
						राजानुजः संसदि कौरवाणां
							विनिष्क्रमन्वाक्यमुवाच भीमः ॥
						
					अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।
						शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥
					इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः ।
						सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥
					सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि ।
						शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥
					वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः ।
						दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ॥
						अर्जुन उवाच ॥ 
					भीमसेन न ते सन्ति येषां वैरं त्वया सह ।
						नन्दा गृहेषु न बुद्ध्यन्ते महद्भयम् ॥
					नैव वाचा व्यवसितं भीम विज्ञायते सताम् ।
						यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ॥
					दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
						दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ॥
					असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम् ।
						भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ॥
					कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः ।
							ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः ।
						
						तान्स्म सर्वञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ॥
						
					चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः ।
						शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥
						वैशम्पायन उवाच ॥ 
					उत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः ।
						प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥
					सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत् ।
						क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ॥
						सहदेव उवाच ॥ 
					यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर ।
						नैते ह्यक्षाः शिता वाणास्त्वयैते समरे धृताः ॥
					यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् ।
							कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः ।
						
						यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥
						
						वैशम्पायन उवाच ॥ 
					सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते ।
						दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥
						नकुल उवाच ॥ 
					सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः ।
						यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ॥
					धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान् ।
						दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥
					उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम् ।
						हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ॥
					निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् ।
						नर्धार्तराष्टां पृथिवीं कर्तास्मि नचिरादिवा ॥
						द्रौपद्युवाच ॥ 
					यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे ।
						तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ॥
					यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान् ।
						तस्मादुधिरमेवास्य पास्यते वै वृकोदरः ॥
					इमं च पापिष्ठमतिं कर्णं समुतबान्धवम् ।
						सामात्यं सपरीवारं हनिष्यति धनञ्जयः ॥
					क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् ।
						सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ॥
						वैशम्पायन उवाच ॥ 
					एवमुक्ते तु वचने द्रौपद्या धर्मशीलया ।
						ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापततम् ॥
					तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः ।
						अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ॥ ॥
					इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥
2-92-13 द्रौपदीपणनात् प्रागिति शेषः । अतो द्रौपदी न दासभावमापन्नेति भावः ॥ 2-92-16 पश्यसितः पाशबद्धः ॥ 2-92-33 स्रोतोभ्यः रोमकूपेभ्यः ॥
