अध्यायः 018
राजानम्प्रति स्वस्वरूपमभिधाय जराया अन्तर्धानम् ॥ 1 ॥
राक्षस्युवाच ॥
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी ।
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा ॥
दानवानां विनाशाय स्थापिता दिव्यरूपिणी ।
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम् ॥
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् ।
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो ॥
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता ।
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता ॥
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप ।
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका ।
संश्लिषिते मया दैवात्कुमारः समपद्यत ।
तव भाग्यान्महाराज हेतुमात्रमहं त्विह ॥
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् ।
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव ॥
मम नाम्ना च लोकेऽस्मिन्ख्यात एव भविष्यति ।
कृष्ण उवाच ।
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः ॥
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा ।
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम् ॥
तस्य नामाकरोच्चैव पितामहसमः पिता ।
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम् ॥
सोऽवर्धत महातेजा मागधाधिपतेः सुतः ।
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ॥
`एवं स ववृधे राजन्कुमारः पुष्करेक्षणः ।
कालेन महता चापि यौवनस्थो बभूव ह' ॥
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥