अध्यायः 019
पुनर्यदृच्छागतेन चण्डकौशिकेन जरासन्धपराक्रमादौ कथिते जरासन्धं राज्येऽभ िषिच्य तपोवनगतस्य सभार्यस्य बृहद्रथस्य स्वर्गगमनम् ॥ 1 ॥ कृष्णेन कंसवधात् जरासन्धस्य स्वस्मिन्वैरोदयकथनम् ॥ 2 ॥
कृष्ण उवाच ॥
कस्यचित्त्वथ कालस्य पुनरेव महातपाः ।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः ॥
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः ।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत ।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत् ॥
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः ।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ॥
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा ।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥
अस्य रूपं च सत्वं च बलमूर्जितमेव च ।
एष श्रिया समुदितः पुत्रस्तव न संशयः ॥
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः ।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः ॥
पततो वैनतेयस्य गतिमन्ये यथा खगाः ।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः ॥
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति ।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः ॥
एनमासाद्य राजानः समृद्धबलवाहनाः ।
विनाशमुपयास्यन्ति शलभा इव पावकम् ॥
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति ।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः ॥
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः ।
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम् ॥
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः ।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् ।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः ॥
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन् ।
विसर्जयामास नृपं बृहद्रथमथारिहन् ॥
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः ।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ॥
बृहद्रथो नरपतिः परां निर्वृतिमाययौ ।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः ।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत् ॥
ततो वनस्थे पितरि मातृभ्यां सह भारत ।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ॥
अथ दीर्घस्य कालस्य तपोवनचरो नृपः ।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत् ।
वरप्रदानमखिलं प्राप्य राज्यमपालयत् ॥
हते चैव मया कंसे सहंसडिभिके तदा ।
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः ।
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत ॥
भ्रामयित्वा शतगुणमेकोनं येन भारत ।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात् ॥
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः ।
एकोनयोजनशते सा पपात गदा शुभा ॥
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता ।
गदावसानं तत्ख्यातं मथुरायाः समीपतः ॥
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ ।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ ॥
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥
एवमेष तदा वीर बलिभिः कुकुरान्धकैः ।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥
2-19-16 आह्निकाय महातपाः इति घ. पाठः ॥