अध्यायः 076
नलेन पुनः स्वपुरंप्रत्यागमनम् ॥ 1 ॥ तथा पुनर्द्यूतेन पुष्रं
पराजित्य तस्य तत्पुरं प्रतियापनम् ॥ 2 ॥
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः ।
पुरादल्पपरीवारो जगाम निषधान्प्रति ॥
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै ।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥
स कम्पयन्निव महीं त्वरमाणो महापुरीम् ।
प्रविवेशाथ संरब्धस्तरसैव महामनाः ॥
ततः पुष्करमासाद्य वीरसेनसुतो नलः ।
उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम् ॥
दमयन्ती च यच्चान्यन्मम किंचन विद्यते ।
एष वै मम संन्यासस्तव राज्यंतु पुष्कर ॥
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥
जित्वा परस्वमाहृत् राज्यंवा यदि वा वसु ।
प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते ॥
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् ।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥
वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा ।
येनकेनाप्युपायेन वृद्धानामिति शासनम् ॥
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।
कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः ॥
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।
ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम् ॥
दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध ।
दिष्ट्या च दुष्कृतंकर्म दमयन्त्याः क्षयं गतम् ॥
दिष्ट्या वै प्रीसे राजन्मम लाभाय नैषध ।
पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम ॥
धनेनानेन वै भैमी जितेन समलंकृता ।
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध ।
देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः ॥
जित्वात्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।
कतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि ॥
श्रुत्वा तु तस् ता वाचो बह्वबद्धप्रलापिनः ।
इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः ॥
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः ।
पणावः किं व्याहरसे जितो न व्याहरिष्यसि ॥
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।
एकपाणेन भद्रं ते नलेन स पराजितः ॥
स रत्नकोशनिचयैः प्राणेन पणितोपि च ।
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ॥
मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम् ।
वैदर्भी न त्वया शक्या राजापशद वीक्षितम् ।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥
न त्वया तत्कृतंकर्म येनाहं विजितः पुरा ।
कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ।
यथासुखं वै जीवत्वंप्राणानवसृजामि ते ॥
तथैव सर्वसंभारं स्वमंशं वितरामि ते ।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥
सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति ।
पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम् ॥
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः ।
वचनैस्तोषयामास परिष्वज्य पुनः पुनः ॥
सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम् ।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।
प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः ॥
महत्या सेनया सार्धंविनीतैः परिचारकैः ।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम् ॥
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ।
`हितेषु चैषां सततं पितेवावहितोऽभवत्' ॥
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः ।
ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ॥
अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च ।
उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् ॥
3-76-1 उष्य वासं कृत्वा ॥ 3-76-5 श्मयन्त्या च
यच्चान्यज्जयत्वं सुसमार्जितमिति ध. पाठः . । 3-76-6 राज्यं एकपाणेनैव मम
तुदमयन्त्यादि च प्राणयोश्च पणावहे युद्धमपि वर्ततामित्यर्तः ॥ 3-76-7 प्राणो
हि धनमुच्यते इति ध. पाठः ॥ 3-76-9 प स्तगतं राज्यंइतिध. पाठः ॥ 3-76-13
दिष्ट्याच ध्रियसे राजन्सदारोऽद्य महाभुजेति झ. पाठः ॥ 3-76-18 पणाय किं
व्याहरसे शीघ्रं द्यूतं प्रवर्ततामिति क. पाठः ॥