अध्यायः 089

लोमशेनेन्द्रवचनाद्युधिष्ठिरंप्रति पार्थस् पाशुपतादिप्राप्तिकथनपूर्वकमिनद््रसंदेशनिवेदनम् ॥ 1 ॥

वैशंपायन उवाच ।
एवं संभाषमाणे तु धौम्ये कौरवनन्दन ।
लोमशः स महातेजा ऋषिस्तत्राजगाम ह ॥
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।
उपातिष्ठन्महाभागं दिवि शक्रमिवामराः ॥
समभ्यर्च्य यथान्यायं धर्मपुत्रो युधिष्ठिरः ।
पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।
उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥
संचरन्नस्मि कौन्तेय सर्वांल्लोकान्यदृच्छया ।
गतः शक्रस्य भवनं तत्रापश्यं सुरेश्वरम् ॥
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।
शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ॥
आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ।
आह मां तत्र देवेशो गच्छ पाण्डुसुतान्प्रति ॥
सोऽहमभ्यागतः क्षिप्रं दिदृक्षस्त्वां सहानुजम् ।
वचनात्पुरुहूतस्य पार्थस् च महात्मनः ॥
आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ।
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ॥
यत्त्वयोक्तो महाबाहुरस्त्रार्थं भरतर्षभ ।
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं विभो ॥
यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागमत् ।
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना ॥
तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ।
वज्रमस्त्राणि चान्यानि दण्डादीनि युधिष्ठिर ॥
यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ।
अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥
विश्वावसोस्तु तनयाद्गीतं नृत्यं च साम च ।
वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमात्मवान् ।
सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् ।
तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥
भवान्मनुष्यलोकेऽपि गमिष्यति न संशयः ।
ब्रूयाद्युधिष्ठिरं तत्रवचनान्मे द्विजोत्तम ॥
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः ।
सुरकार्यं महत्कृत्वा यदशक्यं दिवौकसैः ॥
तपसाऽपि त्वमात्मानं योजय भ्रातृभिः सह ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥
अहं च कर्णं जानामि यथावद्भरतर्षभ ।
सत्यसन्धं महोत्साहं महावीर्यं महाबलम् ॥
महाहवेष्वप्रतिमं महायुद्धविशारदम् ।
महाधनुर्धरं वीरं महास्त्रं वरवर्णिनम् ॥
महेश्वरसुतप्रख्यमादित्यतनयं प्रभुम् ।
तथाऽर्जुनमतिस्कन्धं सहजोल्वणपौरुणम् ॥
न स पार्तस्य संग्रामे कलामर्हति षोडशीम् ॥
यच्चापि ते भयं कर्णान्मनसिस्थमरिंदम ।
तच्चाप्यपहरिष्यामि सव्यसाचिन्युपागते ॥
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति ।
स महर्षिर्लोमशस्ते कथयिष्यत्यसंशयम् ॥
यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत । ब्रह्मर्षिरेष ब्रूयात्ते न तच्छ्रद्धेयमन्यथा ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

3-89-12 प्रायश्चित्तं अस्त्राग्निना निरपराधानां दाहे यो दोषस्तस् शोधनम् । मङ्गलं दग्धानामेवारामादीनां पुनर्विकसनम् । वज्रं वज्रवदप्रतीकार्यं रौद्रमेव ॥ 3-89-14 गीतं लौकिकं गानम् । साम ऋक्षु गानम् ॥ 3-89-18 सुरकार्यं निवातकवचादीनां वधः । कृतार्थः क्षिप्रमर्जुन इति क. थ. पाठः ॥ 3-89-20 रसत्यसन्धं सत्यप्रतिज्ञम् ॥ 3-89-21 वरवर्णिनं अतिसुन्दरम् ॥ 3-89-22 महेश्वरसुतप्रख्यं स्कन्दतुल्यम् । अतित्कन्धं उन्नतांसम् ॥ 3-89-24 अपहरिष्यामि कवचकुण्डलापहरणेन ॥ 3-89-26 तत् श्रद्धेयं नत्वन्यथा ग्रहीतव्यमित्यर्थः ॥