अध्यायः 005
विदुरस्य काम्यकवने पाण्डवसमागमः ॥ 1 ॥ तेन तेषु
तत्रस्वागमनकारणनिवेदनम् ॥ 2 ॥
पाण्डवास्तु वने वासमुद्दिश्य भरतर्पभाः ।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥
सरस्वतीदृपद्वत्यौ यमुनां च निषेव्य ते ।
ययुर्वननैव वनं सततं पश्चिमां दिशम् ॥
ततः सरस्वतीकूले समेषु मरुधन्वसु ।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः ।
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥
ततो गत्वा विदुरः काम्यकं त-
च्छीघ्रैरश्वैर्वाहितः स्यन्दनेन ।
ददर्शासीनं धर्मात्मानं विविक्ते
सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥
ततोऽपश्यद्विदुरं तूर्णमारा-
दभ्यायान्तं सत्यसन्धः स राजा ।
अथाब्रवीद्धातरं भीमसेनं
किंनु क्षत्ता वक्ष्यतिनः समेत्य ॥
कच्चिन्नायं वचनात्सौबलस्य
समाह्वातुं देवनायोपयाति ।
कच्चित्क्षुद्रः कुशली चाऽयुधानि
जेष्यत्यस्माकं पुनरेवाक्षवत्याम् ॥
समाहूतः केनचिदाहवाय
नाहं शक्तो भीमसेनापयातुम् ।
गाण्डीवे च संशयिते कथं नु
राज्यप्राप्तिः संशयिता भवेन्नः ॥
वैशंपायन उवाच ।
तत उत्थाय विदुरं पाण्डवेयाः
प्रत्यगृह्णन्नृपते सर्व एव ।
तैः सत्कृतः स च तानाजमीढो
यथोचितं पाण्डुपुत्रान्समेयात् ॥
समाश्वस्तं विदुरं ते नरर्षभा-
स्ततोऽपृच्छन्नागमनाय हेतुम् ।
स चापि तेभ्यो विस्तरतः शशंस
यथावृत्तं धृतराष्ट्रेऽम्बिकेये ॥
विदुर उवाच ।
अवोचन्मां धृतराष्ट्रोऽभिगुप्त-
मजातशत्रो परिगृह्याभिपूज्य ।
एवं गते समतामभ्युपेत्य
पथ्यं तेषां मम चैव ब्रवीहि ॥
मयाप्युक्तं यत्क्षमं कौरवाणां
हितं पथ्यं धृतराष्ट्रस्य चैव ।
तद्वै पथ्यं तन्मनो नाभ्युपैति
ततश्चाहं क्षममन्यन्न मन्ये ॥
परं श्रेयः पाण्डवेया मयोक्तं
न मे तच्च शुतवानाम्बिकेयः ।
यथाऽऽतुरस्येव हि पथ्यमौपधं
न रोचनते स्मास्य तदुच्यमानम् ॥
न श्रेयसे यततेऽजातशत्रो
स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।
ध्रुवं न रोचेद्भरतर्षभस्य
पतिः कुमार्या इव षष्टिवर्षः ॥
ध्रुवं विनाशो नृप कौरवाणां
न वै श्रेयो धृतराष्ट्रः परैति ।
यथा च पर्णे पुष्करस्यावसिक्तं
जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन् ॥
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां
यस्मिञ्श्रद्धा तव तत्र प्रयाहि ।
नाहं भूयः कामये त्वां सहायं
महीमिमां पालयितुं पुरं वा ॥
सोहं त्यक्तो धृतराष्ट्रेण राज्ञा
प्रशासितुं त्वामुपयातो नरेन्द्र ।
तद्वै सर्वं यन्मयोक्तं सभायां
तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥
क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः
क्षमां कुर्वन्कालमुपासते यः ।
संवर्धयन्स्तोकमिवाग्रिमात्मवान्
स वै भुङ्क्ते पृथिवीमेक एव ॥
यस्याविभक्तं वसु राजन्सहायै-
स्तस्य दुःखस्यांशभाजः सहायाः ।
सहायानामेष संग्रगणेऽभ्युपायः
सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥
सत्यं श्रेष्टं पाण्डवा निष्प्रलापं
तुल्यं चान्नं सह भोज्यं सहायैः ।
आत्मा चैषामग्रतो नातिवर्ते
देवं वृत्तिर्वर्धते भूमिपाल ॥
युधिष्ठिर उवाच ।
एवं करिष्यामि यथा ब्रवीपि
परां बुद्धिमुपगम्याप्रमत्तः ।
यच्चाप्यन्यद्देशकालोपपन्नं
तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
3-5-3 मरुधन्वसु मरुषु निर्जलदेशेषु । धन्वसु जाङ्गलदेशेषु ॥ 3-5-9 अपयातुं निवर्तितुम् । संशयिते पणीकृतेसति । कथं नः राज्यप्राप्तिर्यतः
संशयिता । गाण्डीवनाशादित्यर्थः ॥ 3-5-12 अभिगुप्तं अभिरक्षितारम् ।
हितोपदेशेनेति शेषः । कर्तरिक्तः । ब्रहीहीत्यवोचदिति संबन्धः ॥ 3-5-13 अन्यत्
साम्नोऽन्यत् वैरम् ॥ 3-5-16 परैति परामृशति । पुष्करस् कमलस्य ॥ 3-5-17
श्रद्धा इष्टोयमिति धीः ॥ 3-5-18 धार्यतां न विस्मर्तव्यम् ॥ 3-5-20 उपासते
उपास्ते प्रतीक्षते । तृणैः स्तोकं अग्निमिव आत्मानं सहायसंपत्त्या संवर्धयन् ।
सहायार्जनोपायमाह यस्येति । अविभक्तं साधारणम् । वसु वित्तम् ॥