अध्यायः 102
विष्णुना समुद्रान्तर्हितदैत्यनिधने समुद्रशोपणस्योपायत्वं ज्ञापितैर्देवैर्ब्रह्मलोकगमनम् ॥ 1 ॥ ब्रह्मचोदनया देवैरगस्त्यमेत्य सागरशोषणप्रार्थनम् ॥ 2 ॥
देवा ऊचुः ।
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः ।
ता भाविता भावयनति हव्यकव्यैर्दिवौकसः ॥
लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः ।
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥
इदं च समनुप्राप्तं लोकानां भयमुत्तमम् ।
न च जानीम केनेति रात्रौ वध्यन्ति ब्राह्मणाः ॥
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति ।
तत पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते ।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥
विष्णुरुवाच ।
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् ।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥
कालेया इति विख्याता गणाः परमदारुणाः ।
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम् ॥
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता ।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् ।
उत्सादार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह ॥
न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते ।
समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् ॥
`एतच्छ्रुत्वा वचो देवा विष्णुना समुदीरितम् ।
विष्णुमेव पुरस्कृत्यब्रह्माणं समुपस्थिताः ॥
ततस्ते प्रणता भूत्वा तमेवार्धं न्यवेदयन् ।
सर्वलोकविनाशार्थं कालेया कृतनिश्चयाः ॥
एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः ।
उवाच परमप्रीतस्त्रिदशानर्थवद्वचः ॥
विदितं मे सुराः सर्वे दानवानां विवेष्टितम् ।
मनुष्यादेश्च निधनं कालेयैः कालचोदितैः ॥
क्षयस्तेपामनुप्राप्तः कालेनोपहताश्च ये ।
उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे ॥
अगस्त्य इतिविग्व्यातो वारुणिः सुसमाहितः ।
तमुपागम्य सहिता इममर्थं प्रयाचत ॥
स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम्' ।
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोपणे ॥
अन्यथा हि न शक्यास्ते विना सागरशोपणम् ।
समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ ॥
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः ।
परमेष्ठिनमाज्ञाप्यअगस्त्यस्याश्रमं ययुः ॥
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् ।
उपास्यमानमृपिभिर्देवैरिव पितामहम् ॥
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् ।
आश्रमश्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः ॥
देवा ऊचुः ।
नहुपेणाभितप्तानां त्वं लोकानां गतिः पुरा ।
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥
क्रोधात्प्रवृद्धस्तरणं भास्करस्य नभोगतः ।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥
तमसा चावृतेलोके मृत्युनाऽभ्यर्दिताः प्रजाः ।
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥
अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।
ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥
3-102-1 चतुर्विधाः सुरनरतिर्यक्स्थावराः । दिवौकसः देवान् ॥ 3-102-20 वारुणिं मैत्रावरुणपुत्रम् ॥ 3-102-23 कोधात्प्रवृद्धस्तरसा भास्करस्य नगोतम इति झ. पाठः ॥