अध्यायः 105
ब्रह्मणा देवान्प्रति भगीरथेन समुद्रपूरणकथनम् ॥ 1 ॥ युधिष्ठिरेण तत्प्रकारं पृष्टेन लोमशेन तदुपोद्धाततया सगरस्य भार्याद्वये पुत्रलाभप्रकाऱकथनम् ॥ 2 ॥
लोमश उवाच ।
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः ।
`निर्ह्रादिन्या गिरा राजन्देवानाश्वासयंस्तदा' ॥
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ।
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ॥
ज्ञातींश्च कारणं कृत्वा महाराजो भगीथः ।
`पूरयिष्यति तोयौघैः समुद्रं निधिमम्भसाम्' ॥
पितामहवचः श्रुत्वा सर्वे विबुधसत्तमाः ।
कालयोगं प्रतीक्षन्तो जग्मुश्चापि यथागतम् ॥
युधिष्ठिर उवाच ।
कथं वै ज्ञातयोब्रह्मन्कारणं चात्र किं मुने ।
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥
वैशंपायन उवाच ।
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना ।
कथयामास माहात्म्यं सगरस्य महात्मनः ॥
लोमश उवाच ।
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः ।
रूपसत्वबलोपेतः स चापुत्रः प्रतापवान् ॥
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत ।
वशे च कृत्वा राजन्यान्स्वराज्यमनुशिष्टवान् ॥
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते ।
वैदर्भी भरतश्रेष्ठ शैव्या च भरतर्षभ ॥
सपुत्रकामो नृपतिस्तप्यते स्म महत्तपः ।
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥
स तप्यमानः सुमहत्तपोयोगसमन्वितः ।
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥
शंकरं भवमीशानं पिनाकिं शूलपाणिनम् ।
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः ।
प्रणिपत्य महाबाहुः पुत्रार्थे समयाचत ॥
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् ।
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥
षष्टिः पुत्रसहस्राणि शूराः परमदर्पिताः ।
एकस्यां संभविष्यन्ति पत्न्यां नरवरोत्तम ॥
ते चैवसर्वे सहिताः क्षयं यास्यन्ति पार्थिव ।
एको वंशधरः शूर एकस्यां संभविष्यति ॥
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ।
स चापि सगरो राजा जगाम स्वं निवेशनम् ॥
पत्नीभ्यां सहितस्तत्र होऽतिहृष्टमनास्तदा ।
`कालं शंभुवरप्राप्तं प्रतीक्षन्सगरोऽनयत्' ॥
तस्य तेमनुजश्रेष्ठ भार्ये कललोचने ।
वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः ॥
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत ।
शैव्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥
तदाऽलाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः ।
अथान्तरिक्षाच्छुश्राव वाचं गंभीरनिःस्वनाम् ॥
राजन्मा साहसंकार्षीः पुत्रान्न त्यक्तुमर्हसि ।
अलाबुमध्यान्निष्कृष्य वीजं यत्नेन गोप्यताम् ॥
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः ।
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥
महादेवेन दिष्टं ते पुत्रजन्म नराधिप ।
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥