अध्यायः 129

ऋत्विक्चोदनया सोमकेन राज्ञा जन्तुनामकपुत्रवपाया होमे तद्गन्धाघ्राणनेन तद्भार्याशते पुत्रशतोत्पत्तिः ॥ 1 ॥ लोकान्तरं गतेन सोमकेन ऋत्विजा सह तद्भोग्यस्वपुत्रहननजनारकीयदुःखानुभवपूर्वकं तेन सहैव स्वीयसुकृतकलोपभोगः ॥ 2 ॥

सोमक उवाच ।
ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा ।
पुत्रकामतया सर्वंकरिष्यामि वचस्तव ॥
लोमश उवाच ।
ततः स याजयामास सोमकं तेन जन्तुना ।
मातरस्तु बलातपुत्रमपाकार्षुः कृपान्विताः ॥
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः ।
तं मातरः प्त्यकर्षन्गृहीत्वा दक्षिणे करे ॥
सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति ।
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् ॥
विशस्य चैनं विधिवद्वपामस्य जुहाव सः ।
वपायां हूयमानायां गन्धमाघ्राय मातरः ॥
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ।
सर्वाश्च गर्भानलबंस्ततस्ताः पार्थिवाङ्गनाः ॥
ततो दशसु मासेषु सोमकस्य विशांपते ।
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत् ।
स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः ॥
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे ।
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि ॥
ततः स लोकमगमत्सोमकस्य गुरुः परम् ।
अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम् ॥
अथ तं नरके घोरे पच्यमानं ददर्श सः ।
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् ।
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥
एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत् ।
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ॥
मत्कृते हि महाभागः पच्यते नरकाग्निना ।
`सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः' ॥
धर्म उवाच ।
नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन ।
इमानि तव दृश्यन्ते फलानि वदतांवर ॥
सोमक उवाच ।
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् ।
इच्छाम्यहमननैव सह वस्तुं सुरालये ॥
नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम् ।
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ॥
धर्मराज उवाच ।
यद्येवमीप्सितं राजन्भुङ्खास्य सहितः फलम् ।
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥
लोमश उवाच ।
स चकार तथा सर्वं राजा राजीवलोचनः ।
क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह ॥
लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम् ।
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥
एष तस्याश्रमः पुण्यो य एषोग्रे विराजते ।
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः । षड्रात्रं नियतात्मानः स़ज्जीभव कुरूद्वह ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

3-129- वाशन्त्यः क्रोशन्त्यः ॥ 3-129- वपां देहान्तर्गतमपूपाकारं मासम् ॥ 3-129- लक्षणं चिह्नम् ॥ 3-129- सोमकस्य ऋत्विगिति शेषः ॥ 3-129- क्षान्तः क्षमावान् । उष्य उषित्वा ॥