अध्यायः 131
लोमशेन युधिष्ठिरंप्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥
3-131-2 अभिसृष्टवान् दत्तवान् ॥ 3-131-4 यज्ञवास्तु यज्ञभूमिः । इह अस्मिन्वास्तुनि । इदमुत्तरान्वयि ॥ 3-131-5 अग्निभिरग्निस्थापनार्थैरिष्टकारचितैः स्थण्डिलैः ॥ 3-131-6 शमी आमिक्षार्थं दध्युत्पादनार्थमानीता शमीशाखा । एकपत्रा शातितपत्रा ॥ 3-131-7 प्रसर्पणं संचारभूमिः । रौप्यायां रूप्यवत् श्वेतवर्णायां स्थत्यां नद्यां वा । सामीप्ये सप्तमी । प्रसर्पणं तीर्थमित्यन्ये ॥ 3-131-8 अनुवंशं परंपरागतमाख्यानश्वोकम् । उलूखलैरिति । उलूखलसदृशानि स्त्रीणां कर्णाभरणानि भवन्तीति स्वयमुलूलैरेवाभरणैर्युक्तासतीति शेषः । एतेन विकृतवेषत्वं पिशाच्याः ॥ 3-131-9 युगन्धरे पयः प्राश्येति ध. पाठः । उक्तं भाषणमेवाह द्वाभ्यां युगन्धर इति । अस्मिंस्तीर्थे सपुत्रा ब्राह्मणी स्नातुमागता तां प्रति पिशाची वदति । त्वया युगन्धरे पर्वते देशे वा दधिप्राशनं कृतम् । तत्रोष्ट्रीक्षीरं गर्दभ्यादिक्षीरं च दधि क्रियते । तथा अच्युतस्थलाख्ये संकरजानां ग्रामे वासश्च कृतः । तथा भूतिलयाख्ये दस्युग्रामेऽग्निदग्धानां मृतानां क्षेपणं यस्यां नद्यां क्रियते तस्यां स्नातासि । अतो दोषत्रयवती त्वम् । एतत्करणे रहि प्रायश्चित्तं धर्मशास्त्रे प्रसिद्धम् । औष्ट्रमैकशफं क्षीरं सुरातुल्यमिति । संसृज्य संकरैः सार्धं प्राजापत्यं व्रतं चरेदिति । प्रोष्यभूतिलये विप्रः प्राजापत्यं व्रतं चरेदिति च । तच्च त्वया न कृतमतः कथमत्र वस्तुमिच्छसि । दोषवतामिह तीर्थे वासो दुर्लभ इत्यर्थः । एवं पिशाचीवाक्यं श्रुत्वापि सा ब्राह्मणी तत्र स्नानादिकं कृतवती । ततस्तया राक्षस्या तस्या घटपिठरादिकं नाशितम् । उक्तंच । एतत्तव दिवावृत्तं रात्रौ वृत्तं तु द्रक्ष्यसीति । वृत्तं जातम् । रात्रौ तु तव पुत्रमपि नाशयिष्यामीति भावः । अथापि द्वितीयां रात्रिं वस्तुमिच्छसि चेत्तव भूयांसमपकारं करिष्यामीति युगन्धरादिदेशत्रयनिन्दापरत्वेन व्याख्या ॥ 3-131-10 त्वं तु अब्रह्मवित् एकरात्रमेवात्र वस्तुं योग्या । यदि द्वितीयां वस्तुमिच्छसि तर्हि ते तव एतत् मदीयं वृत्तं भविष्यति मद्वत् पिशाची भूत्वात्र स्नानं न लप्स्यसे । एतदिति स्ववृत्तस्याभिनीय प्रदर्शनम् । द्वितीयदिनवासस्यैवैतत्फलं । द्वितीयरात्रिवासे तुं इतोन्था अहल्यादिवन्मोहप्राप्त्या शिलाभावो भविष्यति । तेन तीर्थदर्शनमपि न लप्स्यसे इति ॥ 3-131-13 एतत्प्लक्षवटं नामेति क. पाठः ॥ 3-131-14 दन्तोलूखलिनस्तत्रेति क. पाठः । सारस्वतैर्ब्राह्मणैः ऋत्विग्भिर्यज्ञैरीजानाः यूपोलूखलिकाः यूपान् उलूखलानि च यज्ञसाधनान्याददते यूपोलूखलिकाः ॥ 3-131-16 कृष्णसारङ्गं कृष्णहरिणसदृशं श्यामकर्णमित्यर्थः ॥ 3-131-21 तीर्थान्तरमाह सरस्वतीति । पश्यैकशरणावृतामिति क. पाठः ॥