अध्यायः 144
पाण्डवैर्मन्दरगिरिगमनम् ॥ 1 ॥ तथा आकाशगङ्गासेवनम् ॥ 2 ॥ तथा
नरकासुरास्थिराशिदर्शनम् ॥ 3 ॥ लोमशेन पाण्डवान्प्रति विष्णुना
नरकासुरवधप्रकारकथनम् ॥ 4 ॥ तथा वराहरूपिणा हरिणा भारावमग्नभूम्युद्धरणकथनम् ॥ 5 ॥
द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः ।
तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः ॥
पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति ।
समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः ॥
अयं देवनिवासो वै गन्तव्यो वो भविष्यति ।
ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणां ॥
एषा शिवजला पुण्या याति सौम्य महानदी ।
बदरीप्रभवा राजन्देवर्षिगणसेविता ॥
एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः ।
अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः ॥
अत्रसाम स्म गायन्ति सामगाः पुण्यनिःस्वनाः ।
मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा ॥
अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः ।
साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा ॥
चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह ।
अहोरात्रविभागेन नदीमेनामनुव्रजन् ॥
एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत् ।
गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत् ॥
एतां भगवतीं देवीं भवन्तः सर्व एव हि ।
प्रयतेनात्मना तात प्रतिगम्याभिवादत ॥
तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः ।
आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन् ॥
अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः ।
पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह ॥
ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम् ।
ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् ॥
तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः ।
उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः ॥
एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम् ।
यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् ॥
एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः ।
पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् ॥
पुरातनेन देवेन विष्णुना परमात्मना ।
रदैत्यो विनिहतस्तेन सुरराजहितैषिणा ॥
दशवर्षसहस्राणि तपस्तप्यन्महामनाः ।
ऐनद्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् ॥
तपोबलेन महता बाहुवेगबलेन च ।
नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः ॥
स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् ।
भयाभिभूतः संविग्नः शक्र आसीत्तदाऽनघ ॥
तेन संचिन्तितो देवो मनसा विष्णुरव्ययः ।
सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ ॥
ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः ॥
तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः ।
नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः ॥
तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम् ।
प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत् ।
प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत् ॥
विष्णुरुवाच ।
जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः ।
ऐन्द्रं रप्रार्थयते स्थानं तपःसिद्धेन कर्मणा ॥
सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम् ।
वियुनज्मि देहाद्देवेनद्र मुहूर्तं प्रतिपालय ॥
लोमश उवाच ।
तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत् ।
स पपात ततो भूमौ गिरिराज इवाहतः ।
तस्यैतदस्थिसंघातं मायाविनिहतस्य वै ॥
इदं द्वितीयमपरं विष्णो कर्म प्रकाशते ॥
नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता ।
पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा ॥
युधिष्ठिर उवाच ।
मगवन्विस्तरेणेमां कथां कथय तत्त्वतः ॥
कथं तेन सुरेशेन नष्टा वसुमती तदा ।
योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा ॥
केन चैव प्रकारेण जगतो धरणी ध्रुवा ।
शिवा देवी महाभागा सर्वसस्यप्ररोहिणी ।
कस्य चैव प्रभावाद्धि योजनानां शतं गता ॥
श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः ॥
लोमश उवाच ।
यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर ।
तत्सर्वमखिलेनेह श्रूयतां मम भाषतः ॥
पुरा कृतयुगे तात वर्तमाने भयंकरे ।
यमत्वं कारयामास आदिदेवः पुरातनः ॥
यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः ।
न तत्र म्रियते कश्चिज्जायते वा तथाऽच्युत ॥
वर्धन्ते पक्षिसङ्घाश्च तथा पशुगवेडकम् ।
गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः ॥
तथा पुरुषशार्दूल मानुपाश्च परंतप ।
सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा ॥
एतस्मिन्संकुले तात वर्तमाने भयंकरे ।
अतिभाराद्वसुमती योजनानां शतं गता ॥
सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना ।
नारायणं वरं देवं प्रपन्ना शरणं गता ॥
पृथिव्युवाच ।
भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह ।
भारेणास्मि समाक्रान्ता न शक्नोस्मि स्म वर्तितुम् ॥
ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि ।
शरणागताऽस्मि ते देव प्रसादं कुरु मे विभो ॥
तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः ।
प्रोवाच वचनं हृष्टः श्राव्यारसमीरितम् ॥
न ते महि भयं कार्यं भारार्ते वसुधारिणि ।
अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि ॥
लोमश उवाच ।
स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् ।
ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः ॥
रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव ।
धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत ॥
स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता ।
योजनानां शतं वीर समुद्धरति सोऽक्षरः ॥
तस्यां चोद्धार्यमाणायां संक्षोभः समजायत ।
देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः ॥
हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा ।
न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा ॥
ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया ।
देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः ॥
उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् ।
भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा ॥
लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम् ।
समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते ॥
सैषा वसुमती कृत्स्ना योजनानां शतं गता ।
किमेतत्किंप्रभावेण येनेदं रव्याकुलं जगत् ।
आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः ॥
ब्रह्मोवाच ।
असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित् ।
श्रूयतां यत्कृते त्वेष संक्षोभो जायतेऽमराः ॥
योसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः ।
तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते ॥
यैषा वसुमती कृत्स्ना योजनानां शतं गता ।
समुद्धृता पुनस्तेन विष्णुना परमात्मना ॥
तस्यामुद्धार्यमाणायां संक्षोभः समजायत ।
एवं भवन्तो जानन्तु च्छिद्यतां संशयश्च वः ॥
देवा ऊचुः ।
क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् ।
तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम् ॥
ब्रह्मोवाच ।
हन्त गच्छत भद्रं वो नन्दने पशय्त स्थितम् ।
एषोत्र भगवाञ्श्रीमान्मुपर्णः संप्रकाशते ॥
वारादेणैव रूपेण भगवाँल्लोकभावनः ।
कालानल इवाभाति पृथिवीतलमुद्धरन् ॥
एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते ।
पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम् ॥
लोमश उवाच ।
ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः ।
पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम् ॥
वैशंपायन उवाच ।
श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय ।
लोमशादेशितेनाशु यथा जग्मुः प्रहृष्टवत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि
चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥
3-144-1 भोद्रष्टारः सर्वे मन्दरादन्ये पर्वता दृष्टा इति
शेषः ॥ 3-144-4 महानदी गङ्गा अलकनन्दा वा ॥ 3-144-5 उपयाता इष्टसिद्ध्यर्थं
प्रार्थिता ॥ 3-144-7 आह्रिकं नैयमिकं जपम् । परिधावन्ति परिचरन्ति । तमिन्द्रम् ॥ 3-144-10 वादत वादयत । अक्षरलोप आर्षः ॥ 3-144-13 पाण्डुरं श्वेतम् । अस्थां
राशिमिति शेषः ॥ 3-144-27 पाणिना चपेटाघातेन चेतनां हरत्प्राणान्जहार ॥ 3-144-32 गता अधस्तादिति शेषः ॥ 3-144-37 पशवश्च गावश्च एडका मेषाश्च
पशुगवेडकम् ॥ 3-144-44 न ते त्वया । हे महि । कुर्मि करोमि ॥ 3-144-46 धूमं
धूपम् । ज्वलयन्निति हेतौ शतृप्रत्ययः । यथायथा धूमो ज्वलति तथातथाऽवर्धत
इत्यर्थः ॥ 3-144-51 वाक्यं उच्चारयन् उच्चारितवन्तः ॥ 3-144-59 नन्दने
इन्द्रवने । अत्र एतत्समीपे ॥