अध्यायः 151
भीमेन जलधिलङ्घनकलिकपृथुरूपप्रदर्शनं प्रार्थितेन हनुमता तंप्रति
एतत्कालिकैस्तात्कालिकरूपस्य दुर्निरीक्षताकथनपूर्वकं कृतादियुगधऱ्मप्रतिपादनम् ॥ 1 ॥
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् ।
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ॥
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ।
मत्तो धन्यतरो नास्ति यदार्यं दृष्टवानहम् ॥
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ।
एतत्तु कृतमिच्छामि त्वयाऽऽर्येण प्रियं मम ॥
यत्त्वेतदासीत्प्लवतः सागरं मकरालयम् ।
रूपमप्रतिमं वीर तदिच्छामि नीरीक्षितुम् ॥
एवं तुष्टो मभिष्यामि श्रद्धास्यामि च ते वचः ।
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् ।
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम् ।
`ततोऽद्य दुष्करं द्रष्टुं मम रूपं नरोत्तम' ॥
अन्यः कृतयुगे कालश्रेतायां द्वापरे परः ।
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः ।
कालं समनुवर्तन्ते यथा भावा युगेयुगे ॥
`कालंकालं समासाद्य नराणां नरपुङ्गव' ।
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥
तदलं बत तद्रूपं द्रष्टुं कुरुकुलोद्वह ।
युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥
भीम उवाच ।
युगसङ्ख्यां समाचक्ष्व आचारं च युगेयुगे ।
धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ॥
हनूमानुवाच ।
कृतं नाम युगं श्रेष्ठं यत्रधर्मः सनातनः ।
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥
न तत्र धर्माः सीदन्ति क्षीयन्ते न च वै प्रजाः ।
ततः कृतयुगं नाम कालेन गुणतां गतम् ॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।
नासन्कृतयुगे तात तदा न क्रयविक्रयः ॥
न सामऋग्यजुर्वर्णाः क्रिया नासीच्च मानवी ।
अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।
नासूया नापि रुदितं न दर्पो नापि वैकृतम् ॥
न विग्रहः कुतस्तन्द्री न द्वेषो न च पैशुनम् ।
न भयं नापि संतापो न चेर्ष्या न च मत्सरः ॥
ततः परमकं ब्रह्म सा गतिर्योगिनां परा ।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥
ब्राह्मणआः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥
समाश्रयं समाचारं समज्ञानं च केवलम् ।
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥
एकदेवसदायुक्ता एकमन्त्रविधिक्रियाः ।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥
`कामः कामयमानेषु ब्राह्मणेषु तिरोहितः' ।
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ॥
त्रेतामपि निबोध त्वं यस्मन्सत्रं प्रवर्तते ।
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ॥
सत्यप्रवृत्ताश्च नराः क्रिया धर्मपरायणाः ।
ततो यज्ञाः प्रवर्तन्ते धर्माश्चविविधाः क्रियाः ॥
त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः ।
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः ।
स्वधर्मस्थाः क्रियावन्तो नरास्त्रेतायुगेऽभवन् ॥
द्वापरे च युगे धर्मो द्विभागो नः प्रवर्तते ।
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथा परे ।
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ॥
एवं शास्त्रेषु भिननेषु बहुधा नीयते क्रिया ।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः ।
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥
सत्यात्प्रच्यवमानानां व्याघयो बहवोऽभवन् ।
कामाश्चोपद्रवाश्चैव तदा वै दैवकारिताः ॥
यैरर्द्यभानाः सुभृशं तपस्तप्यन्ति मानवाः ।
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ।
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥
तामसं युगमासाद्य कृष्णो भवति केशवः ।
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा ।
उपद्रवाः प्रवर्तन्ते आधयो व्याधयस्तथा ॥
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः ।
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥
लोके क्षीणे क्षयं यानति भावा लोकप्रवर्तकाः ।
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते ।
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम ।
अनर्थकेषु को भावः पुरुषस्य विजानतः ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥
3-151-3 एकं तु कृतमिच्छामीति ध. पाठः ॥ 3-151-5 हरिर्वानरः ॥ 3-151-9 वर्ष्म शरीरम् ॥ 3-151-11 भावान् तत्त्वानि । कर्म शुभाशुभम् ।
वीर्यं फलोदयपर्यन्तं शक्तिः । भवाभवावुत्पत्तिविनाशौ ऐश्वर्यानैश्वर्ये वा ॥ 3-151-12 कृतमेव सर्वे कृतकृत्या एवेत्यर्थः । ततएव हेतोः कृतयुगं नाम ॥ 3-151-15 त्रयीधर्मस्य चित्तशुद्ध्यर्थत्वात्तस्याश्च तदानीं
स्वभावसिद्धत्वान्न सामादीन्यासन् । मानवीक्रिया कृष्याद्यारम्भरूपा । किंतु
अभिध्याय फलं संकल्पादेव सर्वं संपद्यत इत्यर्थः ॥ 3-151-16 वैकृतं कपटम् ॥ 3-151-17 विग्रहो वैरम् । तन्द्री आलस्यम् । ईर्ष्या अक्षमा । मत्सरः
परोत्कर्षासहिष्णुत्वम् ॥ 3-151-18 ततोऽसूयादित्यागात् परमकं परमानन्दात्मकं
ब्रह्म प्राप्यत इति शेषः । गतिः प्राप्यम् । श्वेतरक्तपीतकृष्णरूपाणि क्रमेण
कृतादिषु भवन्तीति कृते नारायणः शुक्ल इत्युक्तम् ॥ 3-151-33 यैः व्याधिभिः
कामैश्च ॥ 3-151-35 तामसं तमोगुणप्रधानं कलिम् ॥ 3-151-36 ईतयः
अतिवृष्ट्यादयः ॥ 3-151-37 व्यावर्तते नश्यति ॥ 3-151-38 भावाः
धर्मज्ञानादयः । प्रार्थनानि विकुर्वते । अन्यत्प्रार्थ्यतेऽन्यत् जायते ।
पौष्टिकमपि कर्म विधिलोपान्नाशकं भवतीति भावः ॥ 3-151-39 चिरजीविनो मादृशा अपि
युगानुवर्तिनः कालानुसारिणो भवन्ति ॥ 3-151-40 अनर्थकेषु निष्प्रयोजनेषु ।
भावोऽभिनिवेशः ॥ 3-151-41 स्वस्ति कल्याणम् ॥