अध्यायः 156

दुर्निमित्तप्रदर्शिना भीमसेनानवलोकिना च युधिष्ठिरेण द्रौपदींप्रतिभीमाभिगतदेशप्रश्नः ॥ 1 ॥ द्रौपद्या भीमचिकीर्षितं निवेदितेन युधिष्ठिरेण घटोत्कचसाहाय्येन भीमसमीपगमनम् ॥ 2 ॥ कुबेरबहुमानितैस्तैरर्जुनदिदृक्षया तत्रैव सुखेन विहरणम् ॥ 3 ॥

वैशंपायन उवाच ।
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ ।
बहूनि बहुरूपाणि विरजांसि समाददे ॥
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीद्वरस्पर्शः संग्राममभिचोदयन् ॥
पपात महती चोल्का सनिर्घाता महाभया ।
निष्प्रभश्चाभवत्सूर्यंश्छन्नरश्मिस्तमोवृतः ॥
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते ।
चचाल पृथिवी चापि पांसुवर्षं पपात च ॥
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः । तमोवृतमभूत्सर्वं न प्राज्ञायत किंचन ।
[अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ॥] तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः ।
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः ।
यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः ॥
एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः ।
अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः ॥
ततः कृष्णां यमौ चापि समीपस्थानरिंदमः ।
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥
कच्चिन्न भीमः पाञ्चालि किंच कृत्यं चिकीर्षति ।
कृतवानपि वा वीर साहसं साहसप्रियः ॥
इमे ह्यकस्मादुत्पाता महासमरशंसिनः ।
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी ।
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना ।
तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम् ॥
अपि चोक्तो मया वीरो यदिपश्येर्बहून्यपि ।
तानि सर्वाणअयुपादाय शीघ्रमागम्यतामिति ॥
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः ।
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् ।
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् ।
त्वमप्यमरसंकाश वह कृष्णां घटोत्कच ॥
व्यक्तं दूरमितो भीमः प्रविष्ट इतिमे मतिः ।
चिरं चतस्य कालोऽयं स च वायुसमो जवे ॥
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने ।
उत्पतेदपिचाकाशं निपतेच्चयथेच्छकम् ॥
तमन्वियाम भवतां प्रभावाद्रजनीचराः ।
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥
तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा ।
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः ।
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥
ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने ।
पद्मसौगन्धिकवतींनलिनीं सुमनोरमाम् ॥
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ।
ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान् ॥
भिन्नकायाक्षिबाहूरुन्संचूर्णितशिरोधरान् ।
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ॥
सक्रोधं स्तव्धनयनं संदष्टदशनच्छदम् ।
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ॥
प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् ।
तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत ॥
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् । साहसं वत भद्रं ते देवानामपि चाप्रियम् ।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥
अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च ।
तस्यामेव नलिन्यां तु विजह्ररमरोपमाः ॥
एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः ।
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥
ते दृष्ट्वाधर्मराजानं महर्षिं चापि लोमशम् ।
नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान् ॥
विनयेन नताः सर्वेप्रणिपत्य च भारत ।
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ॥
विदिताश्चकुबेरस्य तत्रते कुरुपुङ्गवाः । ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ।
प्रतीक्षमाणआ बीभत्सुं गन्धमादनसानुषु ॥

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽष्यायः ॥ 156 ॥

3-156-7 पराक्रमः पराक्रमकालः ॥ 3-156-21 उद्देशज्ञाः स्थलज्ञाः ॥