अध्यायः 157
गन्धमादनादुत्तरं देशं जिगमिषुणा युधिष्ठिरेण आकाशवाणीश्रवणात्ततः प्रतिनिवृत्य अनुचरैःसह नरनारायणाश्रमं प्रति पुनरागमनम् ॥ 1 ॥
वैशंपायन उवाच ।
तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः ।
आमन्त्र्य सहितान्भ्रातृनित्युवाच सहद्विजान् ॥
दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च ।
मनसो ह्लादनीयानि वनानि च पृथक्पृथक् ॥
देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः ।
यथाक्रममशेषेण द्विजैः संपूजितानि च ॥
ऋषीणां पूर्वचरितं तपोधर्मविचेष्टितम् ।
राजर्षीणां च चरितं कथाश्च विविधाः शुभाः ॥
शृण्वानास्तत्रतत्र स्म आश्रमेषु शिवेषु च ।
अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः ॥
अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः ।
यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः ॥
पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च ।
उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः ॥
इला सरस्वती सिन्धुर्यमुना नर्मदा तथा ।
नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः ॥
गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः ।
हिमवान्पर्वतश्चैव नानाद्विजगणायुतः ॥
विशाला बदरी दृष्टा नरनारायणाश्रमः ।
दिव्यपुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता ॥
यथाक्रमविशेषेण सर्वाण्यायतनानि च ।
दर्शितानि द्विजेनद्रेण लोमशेन महात्मना ॥
इमं वैश्रवणावासं दुर्गमं गन्धमादनम् ।
कथं भीम गमिष्यामो मतिरत्र विधीयताम् ॥
वैशंपायन उवाच ।
एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी ।
न शक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः ॥
अननैव पथा राजन्प्रतिगच्छ यथागतम् ।
नरनारायणस्थानं बदरीत्यभिविश्रुतम् ॥
तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम् ।
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः ॥
अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः ।
ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च ॥
एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुभः ।
भनःप्रह्लादनः शीतः पुष्पवर्षं ववर्ष वै ॥
तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयः समपद्यत ।
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः ॥
श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्यस्त्वभाषत ।
न शक्यमुत्तरं गन्तुं प्रतिगच्छाम पाण्डव ॥
ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः ।
[प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् ॥]
भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः ।
पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥