अध्यायः 162

भीमादर्शनेन दुर्मनायमानैर्युधिष्ठिरादिभिः पर्वताग्रारोहणेन भीमसमीपगमनम् ॥ 1 ॥ भीमहतावशिष्टैर्निवेदितमणिमदादिवधेन कुबेरेण युयुत्सया भीमंप्रत्यागमनम् ॥ 2 ॥ तत्रयुधिष्ठिरादिदर्शनेन शान्तमन्युना तेन तान्प्रति स्वस्याग स्त्यशापावासिकथनपूर्वकं भीमसेनकार्यानुमोदनम् ॥ 3 ॥

वैशंपायन उवाच ।
श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम् ।
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा ।
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥
द्रौपदीमार्ष्टिषेणाय संप्रधार्य महारथाः ।
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ।
ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ॥
स्फुरतश्च महाकायान्गतसत्वांश्च राक्षसान् ।
महाबलान्महासत्वान्भीमसेनेव पातितान् ॥
शुशुरतश्च महाकायान्गतसत्वांश्च राक्षसान् ।
महाबलान्महासत्वान्भीमसेनेन पातितान् ॥
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् ।
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत ।
लोकपालैर्महाभागैर्दिवं देववरैरिव ॥
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् ।
भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः ॥
साहसाद्यदिवा मोहाद्बीम पापमिदं कृतम् ।
नैतत्ते सदृशं वीर मुनेरिव मृषा वधाः ॥
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः ।
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥
अर्थधर्मावनादृत्य यः पापे कुरुते मनः ।
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ॥
`साहसंवत भद्रं ते देवानामपि चाप्रियम्' ।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् ।
`भीमसेनं महाबाहुमप्रधृष्यपराक्रमम्' ॥
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
विराम महातेजास्तमेवार्थं विचिन्तयन् ॥
ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः ।
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥
ते जवेन महावेगाः प्राप्य वैश्रवणालयम् ।
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥
न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्तपरिच्छदाः ।
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥
गदापरिघनिस्त्रिंसतोमरप्रासयोधिनः ।
राक्षसा निहताः सर्वे तव देवपुरःसराः ॥
प्रमृद्यतरसा शैलं मानुषेण धनेश्वर ।
एकेन निहताः सङ्ख्ये गताः क्रोधवशा गणाः ॥
प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप ।
शेरते निहता देव गतसत्वाः परासवः ॥
भग्नः शैलो वयं भग्ना मणिमांस्ते सखा हतः ।
मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम् ॥
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः ।
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः ।
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥
अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ।
रथं संयोजयामासुर्गर्न्धैवर्हेममालिभिः ॥
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः । तेजोबलगुणोपेता नानारत्नविभूषिताः ।
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ॥
`ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम्' ।
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥
स तमास्थाय भगवान्राजराजो महारथम् ।
प्रययौ देवगनधर्वैः स्तूयमानो महाद्युतिः ॥
तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम् ।
`अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः' ॥
रक्ताक्षा हेमसंकाशा महाकाया महाबलाः ।
सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः ॥
ते जवेन महावेगाः प्लवमाना विहायसा ।
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम् ॥
तत्केसरिमहाजालं धनाधिपतिपालितम् ।
`रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः' ॥
कुबेरं च महात्मानं यक्षरक्षोगणावृतम् ।
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥
कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान् ।
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥
`सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः ।' देवकार्यं करिष्यन्ति हृदयेन तुतोष ह ॥
ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः ।
तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः ॥
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत ।
समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः ॥
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् ।
नकुलः सहदेवश् धर्मपुत्रश्च धर्मवित् ॥
अपराद्धमिवात्मानं मन्यमाना महारथाः ।
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥
शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा ।
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः ।
उपोपविविशुर्यक्षा राक्षसाश् सहस्रशः ॥
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः ।
परिवार्योपतिष्ठन्ति यथा देवाः शतक्रतुम् ॥
काञ्जनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् ।
बाणखङ्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः ।
आसीत्तस्यामवस्तायां कुबेरमपि पश्यतः ॥
आददानं शितान्बाणान्योद्धुकाममवस्थितम् ।
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् ।
निर्भयश्चापिशैलाग्रे वस त्वं सह बन्धुभिः ॥
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव ।
कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥
व्रीडा चात्रन कर्तव्या साहसं यदिदं कृतम् ।
दृष्टश्चापि सुरैः पूर्वंविनाशो यक्षरक्षसाम् ॥
न भीमसेने कोपो मे प्रीतोस्मि भरतर्षभ ।
कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा ॥
वैशंपायन उवाच ।
स एवमुक्त्वा राजानं भीमसेनमभाषत ।
नैतन्मनसि मे तात वर्तते कुरुसत्तम ॥
यदिदं साहसं भीम कृष्णार्थे कृतवानसि ।
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ॥
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ।
शापादद्य विनिर्मुक्तो घोरादस्माद्वृकोदर ॥
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा ।
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम् ॥
दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन ।
न तवात्रापराधोस्ति कथंचिदपि पाण्डव ॥
युधिष्ठिर उवाच ।
कथं शप्तोसि भगवन्नगस्त्येन महात्मना ।
श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम् ॥
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस् धीमतः ।
तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥
धनेश्वर उवाच ।
देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर ॥
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ।
यक्षाणआं घोररूपाणां विविधायुधधारिणाम् ॥
अध्वन्यहमथापश्यमगस्त्यमृपिसत्तमम् । उग्रं तपस्तप्यभानं यमुनातीरमाश्रितम् ।
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥
तमूर्द्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम् ।
तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा ।
मौर्क्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव ॥
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ।
ततः क्रुद्धः स भगवानुवाचेदं तपोधनः ॥
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ।
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ॥
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्भते ।
तमेव मानुषं दृष्ट्वाकिल्विषाद्विप्रमोक्ष्यसे ॥
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् ।
न शापं प्राप्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ॥
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् । स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

3-162-3 संप्रधार्य रक्षार्थं समर्प्य ॥ 3-162-10 मुनेरिव वनवासिनस्ते तवैतत् सदृशं नोचितम् । यत् मृषा निर्निमित्तम्. वधो रक्षसां हिंसा ॥ 3-162-16 सहिता मिलिताः ॥ 3-162-24 युज्यतां रथ इवि शेषः ॥ 3-162-25 अभ्रघनः सजलमेघः । गन्धर्वैर्हयैर्योजयामासुः यक्षा इति शेषः ॥ 3-162-26 विमलाक्षाः दशावर्तशुद्धाः ॥ 3-162-48 दृष्टो ज्ञातः ॥ 3-162-54 मम मया । संक्लेशो भाविदुःखम् ॥ 3-162-57 कुशावत्यां कुशस्थलीसंज्ञे देशविशेषे ॥ 3-162-60 एधितं समिद्धम् ॥ 3-162-61 मौर्ख्यात् विचाराक्षमत्वात् । अतएव अगस्त्योयमित्यज्ञानभावात् । मौर्ख्यमपि दर्पात्संपत्तिगर्वात् । सोपि मोहात् संपत्तेर्नश्वरत्वाज्ञानात् ॥ 3-162-62 न्यष्ठीवत् थूत्कृतवान् ॥