अध्यायः 167
इन्द्रेण सभ्रातृकं युधिष्ठिरमेत्य जयाशीः संसनपूर्वकं पुनः स्वर्गंप्रति गमनम् ॥ 1 ॥
वैशंपायन उवाच ।
[ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम् ।
भ्रातृभिः सहितः सर्वैरवन्दत धनंजयः ॥]
एतस्मिन्नेव काले तु सर्ववादित्रनिःखनः ।
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥
रथनेमिखनश्चैव घण्टाशब्दश्च भारत ।
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥
`रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वह ।
मरुद्भिरन्वितं शक्रमापतन्तं विहायसा' ॥
ते समन्तादनुययुर्गन्धर्वाप्सरसस्तथा ।
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् ॥
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् ।
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥
पार्थानभ्याजपामाशु देवराजः पुरंदरः ।
आगत्य च सहस्राक्षो रथादवरुरोह वै ॥
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ॥
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः ।
यथार्हममितात्मानं विधिदृष्टेन कर्मणा ॥
धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम् ।
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
धनंजयभिप्रेक्ष्यविनीतं स्थितमन्तिके ॥
जटिलं देवराजस्य तपोयुक्तमकल्मषम् ।
हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात् ।
बभूव परमप्रीतो देवराजं च पूजयन् ॥
तं तथाऽदीनमनसं राजानं हर्,संप्लुतम् ।
उवाच वचनं धीमान्धर्मराजं पुरंदरः ॥
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव ।
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥
अस्त्राणि लब्धानि च पाण्डवेन
सर्वाणि मत्तः प्रयतेन राजन् ।
कृतप्रियश्चास्मि धनंजयेन
जेतुं न शक्यस्त्रिभिरेष लोकैः ॥
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् ।
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ॥
धनेश्वरगृहस्थानां पाण्डवानां समागमम् ।
शक्रेण य इदं विद्वानधीयीत समाहितः ॥
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः ।
स जीवेद्धि निराबाधः सुसुखी शरदां शतम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥
3-167-3 भुजङ्गव्याघ्रसिंहानां इति थ. पाठः ॥ 3-167-6 हरिभिर्युक्तं रथम् ॥ 3-167-9 अमितात्मा अमितबुद्धिः ॥ 3-167-15 कृतप्रियः शत्रुवधेन । सर्वाणि भत्तो गिरिशाच्च देवात् इति थ. पाठः ॥