अध्यायः 177
अर्जुनेन युधिष्ठिराय दिव्यास्त्रप्रदर्शनन् ॥ 1 ॥ अस्रतेजसा
जगत्क्षोभे सति इन्द्रचोदनया नरादेनार्जुनप्रत्यस्त्रप्रदर्शन प्रतिषेधनम् ॥ 2 ॥
तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः ।
उत्थायावश्यकार्याणि कृतवान्भ्रातृभिः सह ॥
ततः संचोदयामास सोऽर्जुनं मातृनन्दनम् ।
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥
ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः ।
अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥
यथान्यायं महातेजाः शौचं परममास्थितः ।
`नमस्कृत्य त्रिनेत्राय वासवाय च पाण्डवः' ॥
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत् ।
पार्थिवं रथमास्थाय शोभमानो धनंजयः ॥
दिव्येन संवृतस्तेन कवचेन सुवर्चसा ।
धनुरादाय गाण्डीवं देवदत्तं स वारिजम् ॥
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः ।
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै ।
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥
क्षुभिताः सरितश्चैव तथैव च महोदधिः ।
शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः ॥
न बभासे सहस्रांशुर्न जज्वाल च पावकः ।
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन ॥
अन्तर्भूमिगता ये च प्राणिनो जनमेजय ।
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः ।
दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनंजयम् ॥
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः ।
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥
देवर्षयश्च प्रवरास्तथैव च दिवौकसः ।
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः ।
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे ॥
ततः पितामहश्चैव लोकपालाश्च सर्वशः ।
भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥
ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः ।
अभितः पाण्डवंचित्रैरवचक्रे समन्ततः ॥
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः ।
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ॥
तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः ।
आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥
अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत ।
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथंचन ॥
अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन ।
प्रयोगेषु महान्दोषो ह्यस्त्राणां कुरुनन्दन ॥
एतानि रक्ष्यमाणानि धनंजय यथागमम् ।
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव ।
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे ।
योज्यमानानि पार्थे नद्विषतामवमर्दने ॥
वैशंपायन उवाच ।
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् ।
जग्मुरन्ये च ये तत्र रसमाजग्मुर्नरर्षभ ॥
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः ।
तस्मिननेव वने हृष्टास्त ऊषुः सह कृष्णया ॥
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि
सप्तमप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥
3-177-2 मातृनन्दनं मातुः सुखकरम् ॥ 3-177-5 गिरयएव
कूवरादयस्तद्वन्तम् । कूबरो यस्मिन् युगं ध्रियते तद्दारु । पादौ चक्रे । अक्षः
तयोः संधानं दारु । शुभाः वेणवइव वेणवो यस्मिन् तत् शुभवेमु त्रिवेणु
अक्षकूबरयोः संधानार्थं त्रिशिख दारु तद्वन्तम् । सुपां सुलुगिति द्वितीयाया
आर्षो लुक् । रथपदे वा क्लीबत्वं ध्येयम् । पृथिवीमेव पार्थिवं मानसं भूमिरूपं
रथम् ॥ 3-177-6 वारिजं शङ्खम् । देवदत्तं नामतः ॥ 3-177-7 दर्शनाय दर्शयितुम् ॥ 3-177-19 निरधिष्ठाने लक्ष्याभावे सति ॥ 3-177-20 अधिष्ठानेपि वा अनार्तः न
प्रयुञ्जीत ॥