अध्यायः 209
तरुतले तपस्यता कौशिकेनात्मोपरि पुरीषोत्सृष्ट्या बलाकायाः सक्रोधनिरीक्षणेन दहनम् ॥ 1 ॥ तथा भिक्षार्थं पतिव्रतायाः कस्याश्चिद्गृहं प्रविष्टं भिक्षादाने चिरीकरणेन रुष्टं च कौशिकंप्रति तया स्वत्य बलाकावृत्तान्तावगतिसूचनेन स्वशक्तिप्रकाशनपूर्वकं धर्मावगतये धर्मव्याधसमीपगमनचोदना ॥ 2 ॥
मार्कण्डेय उवाच ।
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः ।
तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः ।
सवृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत ।
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥
समवेक्ष्यततः क्रुद्धः सममध्यायत द्विजः ।
`तां बलकां महाराज निलीनां नगमूर्धनि ॥
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ।
अपध्याता च विप्रेण न्यपतद्धरणीतले ॥
बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम् ।
कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः ।
अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः ॥
इत्युक्ताव बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ।
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ ॥
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः ।
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिवी ॥
एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम् ।
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् ।
पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम् ॥
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा ।
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥
उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर ।
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥
कर्मणा मनसा वाचा नात्यश्नान्नापि चापिवत् ।
तं सर्वभावोपगता पतिशुश्रूषणे रता ॥
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ।
भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते ॥
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा ।
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ।
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥
व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम ।
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥
ब्राह्मण उवाच ।
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने ।
उपरोधं कृतवती न विसर्जितवत्यसि ॥
मार्कण्डेय उवाच ।
ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा ।
दृष्ट्वा साध्वी मनुष्येन्द्रसान्त्वपूर्वं वचोऽब्रवीत् ॥
`क्षमस्वविप्रप्रवर क्षमस्व स्त्रीजडात्मताम् ।
प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज' ॥
क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत् ।
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितोमया ॥
ब्राह्मण उवाच ।
ब्राह्मणआ न गरीयांसो गरीयांस्ते पतिः कृतः ।
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि ।
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ।
`सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः' ॥
स्त्र्युवाच ।
[नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन ।
अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि]
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः ।
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥
जानामि तेजो विप्राणआं महाभाग्यं च धीमताम् ।
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।
येषां क्रोधाग्निरद्यापि समुद्रे नोपशाम्यति ।
`कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः' ॥
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान् ।
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥
बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम् ।
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ।
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ॥
पतिशुश्रूषया धर्मो य स मे रोचते द्विज ।
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ॥
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ।
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ॥
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया ।
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ॥
`मास्म क्रुध्यो बलाकेव न वध्याऽस्मि पतिव्रता' ।
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥
यो वदेदिह सत्यानि गुरुं संतोषयेत च ।
हिंसितश्च त हिंसेत तं देवा ब्राह्मणं विदुः ॥
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः ।
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ॥
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा ।
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥
ब्राह्मचारी वदान्यो योप्यधीयाद्द्विजपुङ्गवः ।
स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः ॥
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् ।
सत्यं तथा व्याहरतां नानृते रमते मनः ॥
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् ।
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ।
दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः ॥
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ।
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ॥
भगवानपि धर्मज्ञः स्वाद्यायनिरतः शुचिः ।
न तु तत्त्वेन भगवन्दर्मं वेत्सीति मे मतिः ॥
यदि विप्र न जानीषे धर्मं परमकं द्विज ।
धर्मव्याधं तत पृच्छ गत्वा तु मिथिलां पुरीम् ॥
मातापितृभ्यां शुश्रूपुः सत्यवादी जितेन्द्रियः ।
मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति ॥
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ।
`व्याधः परमधर्मात्मा स ते छेत्स्यति संशयम्' ॥
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ।
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते ॥
ब्राह्मण उवाच ।
प्रीतोस्मि तव भद्रं ते गतः क्रोधश्च शोभने ।
उपालम्भस्त्वया प्रोक्तो मम निश्रेयसं परम् ॥
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ।
`धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम् ।
मारक्ण्डेय उवाच ।
तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ ।
विनिन्दन्स स्वमात्मानं कौशिको द्विजसत्तमः ॥
3-209-28 दण्डकेनोपशाम्यति इति झ. पाठः ॥ 3-209-48 अभिविन्दते जानन्तीत्यर्थः ॥ 3-209-50 साधयिष्यामि स्वकार्यमिति शेषः ॥