अध्यायः 216
धर्मव्याधेन कौशिकंप्रतिसत्वादिगुणत्रयगुणनिरूपणपूर्वकमध्यात्मकथनम् ॥ 1 ॥
मार्कण्डेय उवाच ।
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत ।
ब्राह्मणः स पुन सूक्ष्मं पप्रच्छ सुसमाहितः ॥
वृत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।
वृणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥
व्याध उवाच ।
दृन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।
एतान्गुणान्पृथक्त्वेन निबोध गदतो मम ॥
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् ।
प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते ॥
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः ।
दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः ॥
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनमूयकः ।
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः ।
अक्रोधनो नरो धीमान्दान्तश्चैवस सात्विकः ॥
सात्विकस्त्वथ संबुद्धो लोकवृत्तैर्न लिप्यते ।
यदा बुध्यति बोध्धव्यं लोकवृत्तं जुगुप्सते ॥
वैराग्यस् च रूपं तु पूर्वमेव प्रवर्तते ।
मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् ॥
ततोऽस् सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम् ।
न चास्यासंयमो नाम क्वचिद्भवति कश्चन ॥
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः ।
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते ।
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥
ब्राह्मण उवाच ।
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् ।
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥
मार्कण्डेय उवाच ।
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर ।
व्याधस्तु कथयामास ब्राह्मणाय महात्मने ॥
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् ।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥
भूं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम् ।
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ॥
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।
मनोबुद्धिरहंकारो भूतानां विषयश्च सः ॥
`अव्यक्तं सस्वसंज्ञं च जीवः कालः स चैव हि ।
प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम ॥
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः ।
जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि ॥
तस्मिन्निरुद्दे विप्रेन्द्र मृत इत्यभिधीयते ।
त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते ॥
एष त्वग्निरपानन प्राणेन परिपाल्यते ।
पृष्ठतस्तु समानन स्वांस्वां गतिमुपाश्रितः ॥
वस्तुमूले गुदे चैव पावकं समुपाश्रितः ।
वहन्मूत्रं पुरीषंवाऽप्यपानः परिवर्तते ॥
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥
सन्धौसन्धौ संनिविष्टः सर्वेष्वपि तथाऽनिलः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्ते ॥
धातुष्वग्निस्तु विततः स तु वायुसमीरितः ।
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥
प्राणानां संनिपातात्तु सन्निपातः प्रजायते ।
सोष्मा सोग्निरितिज्ञेयो योऽन्नं पचतिदेहिनां ॥
अपानोदानयोर्मध्ये प्राणन्यानौ समाहितौ ।
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः ।
स्रोतांशि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥
पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः ।
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा ।
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् ।
जितक्लमासनो धीरो मूर्धन्यात्मानमादत् ॥
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ।
`तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि' ॥
एकादशविकारात्मा कलासंभारसंभृतः ।
मूर्तिमन्तं हि तं विद्धि नित्यं कर्माजेतात्मकम् ।
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः ॥
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकं ॥
जीवात्मकं विजानीहि रजः सत्वं तमस्तथा ।
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकं ॥
अचेतनं जीवगुणं वदन्ति
सचेष्टते चेष्टयते च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति
प्राकल्पयद्यो भुवनानि सप्त ॥
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥
चित्तस्य हि प्रसादेन हनति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमनन्त्यमश्नुते ॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।
`सुखदुःखे हि संत्यज्य निर्द्वन्द्वो निष्परिग्रहः' ।
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥
पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः ।
लध्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति ।
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते ॥
सर्वोपायैस्तु लोभस् क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं यञ्ज्ञानं तपो वै संक्रमो मतः ॥
नित्यं क्रोधात्तपो रक्षेन्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम् ॥
सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् ।
यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥
यस् सर्वे समारम्भा निराशीर्बन्धनाः सदा ।
त्यागे यस् हुतं सर्वं स त्यागी स च बुद्धिमान् ॥
यदा न गुरुतां चैनं च्यावयेदुपपादयन् ।
तं विद्याद्ब्राह्मणो योगमयोगं योगसंज्ञितम् ॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।
नेदं जीवितमासाद्यवैरं कुर्वीत केनचित् ॥
आकिंचन्यं सुसंतोषो निराशित्वमचापलम् ।
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः ।
अशोकं स्थानमाश्रित् निश्चलं प्रेत्य चेह च ॥
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥
गुणागुणमनासङ्गमेककार्यमनन्तरम् ।
एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम् ॥
परित्यजति यो दुःखं सुखं चाप्युभयं नरः ।
ब्रह्म प्राप्नोति सोत्यन्तमासङ्गं च न गच्छति ॥
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥
3-216-10 नचास्य संशयो नाम इति झ. पाठः ॥ 3-216-27 समानोदानयोर्मध्येप्राणपानौ समाहितौ इति झ. पाठः ॥ 3-216-45 धर्मे रक्षेच्च मत्सरात् इति झ. पाठः ॥ 3-216-50 मैत्रं मित्रभावस्तदेवायनं मार्गस्तद्गतश्चरेत् ॥