अध्यायः 224

मार्कण्डेयेन युधिष्ठिरंप्रत्यग्निवंशादिकीर्तनम् ॥ 1 ॥

मार्कण्डेय उवाच ।
आपस्य मुदिता भार्या सा चास्य परमाप्रिया ।
भूपतिं भूतकर्तारं जनयामास पावकम् ॥
भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम् ।
आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः ॥
महतां चैव भूतानां सर्वेषामिह यः पतिः ।
भगवान्स महातेजा नित्यं चरति पावकः ॥
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते ।
आज्यं वहतियो हव्यं सर्वलोकस् पावकः ॥
अपांगर्भो महाभागः सत्वभुग्यो महाद्भुतः ।
भूपतिर्भूतकर्ता च महतः पतिरुच्यते ॥
मता वहन्तो हव्यानि तस्याग्नेरप्रजाऽभवन् ।
अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत ॥
[स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः] ।
आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात् ॥
देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम् ।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ॥
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ।
अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् । मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ।
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ॥
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥
अनुनीयमानो हि भृशं देववाक्यान्वितेन सः ।
नैच्छद्वोढुं हवि सर्वं शरीरं चापि सोऽत्यजत् ॥
स तच्छरीरं संत्यज्य प्रविवेश धरां तदा ।
भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि ॥
आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च ।
श्लेष्मणः स्फाटिकं तस् पित्तान्मारकतं तथा ॥
वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः ।
त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम् ॥
शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप ।
एवं कृत्वा शरीरं च परमे तपसि स्थितः ॥
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ।
भृशं जज्वाल तेजस्वी तपसाऽऽप्याधितः शिखी ॥
दृष्ट्वा ऋषीनभयाच्चापि प्रविवेश महार्णवम् । तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् ।
अर्चयामासुरेवैनमथर्वाणं सुरादयः ॥
अथर्वाणं श्रिताँल्लोकानात्मन्यालोच्य पावकः ।
मिषतां सर्वभूतानामुन्ममज्ज महार्णवात् ॥
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा ।
आहूतः सर्वूतानां हव्यं वहति सर्वदा ॥
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् ।
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥
सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती ।
गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया ॥
चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा ।
इरावती वेत्रवती नद्यतिस्रोऽथ कौशिकी ॥
तमसा नर्मदा चैव नदी गोदावरी तथा ।
वेण्णा प्रवेणी भीमा च मरुदा चैव भारत ॥
भारती सुप्रयोगा च कावेरी मज्जुरा तथा ।
तुङ्गवेणा कृष्णवेणा कपिला शोण एव च ॥
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः ।
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु ॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः ।
अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ।
एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा ॥
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ।
अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम् ॥
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः ।
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ॥
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्वथा । इत्येष वंशः सुमहानग्नीनां कीर्तितो मया ।
पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥

इति श्रीन्ममहाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्विंसत्यधिकद्विशततमोऽध्यायः ॥ 224 ॥

3-224-8 अथर्वाणमङ्गिरसं तीव्रतपसं दृष्ट्वा ॥ 3-224-9 गच्छ मा द्वेषमिति ध. पाठः. मध्वक्षं पिङ्गाक्षमग्निम् । भावप्रधानो निर्देशः. तथाच निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भवेत्युपक्रमस्योपसंहारेण सहैकवाक्यता भवति ॥ 3-224-10 प्रेष्य आदिश्य ॥ 3-224-11 तथाचापि तथैव मत्स्यैराख्यातोपि । वचस्त्वं मध्वक्षो भवेति पूर्वोक्तमेव ॥ 3-224-13 धातून् मनःशिलादीन् ॥ 3-224-15 यकृत्कृष्णायसं = त्रिभिरेव बभुः प्रजाः । नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् । इति झ. पाठः ॥ 3-224-16 रीरद्विविधाश्चान्ये=एवं त्यक्त्वा शरीरं इति झ. पाठः । अन्ये स्वर्णपारदादयः ॥ 3-224-17 तपसा सामर्थ्येन । उत्धापितः समाधेश्च्यावितः ॥ 3-224-19 अथर्वा त्वसृजल्लोकानात्मना लोक्यपावकम् । =अन्ममाथ महार्णवमिति झ. पाठः ॥ 3-224-21 एवंत्विति । अग्नेरङ्गिरास्ततो बृहस्पतिस्तः शंय्वादिक्रमेण वेदोक्तान् विष्ण्यान् नानास्थानानि अजनयत् ॥ 3-224-27 यावन्तः पावका धिष्ण्याः सन्ति तावन्तः सोमाः सोमयागाः ॥ 3-224-32 योर्चितो विविधैः इति झ. पाठः ॥