अध्यायः 035
भीमेन युधिष्ठिरंप्रति सोपपत्तिकं वनवासापूरणेनैव
दुर्योधननिग्रहचोदना ॥ 1 ॥
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा ।
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ॥
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।
फेनधर्मा महाराज फलधर्मा तथैव च ॥
निमेषादपि कौन्तेय यस्यायुरपचीयते ।
सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ॥
यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित् ।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश ।
आयुषोपचयं कृत्वा मरणायोपनेष्यति ॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः ।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥
यो न यातयते वैरमल्पसत्वोद्यमः पुमान् ।
अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ॥
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी ।
हत्वा द्विषन्तं संग्रामे भुङ्क्ष्व बाहुजितं वसु ॥
हत्वा वै पुरुषो राजन्निकर्तारमरिंदम् ।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः ।
येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।
आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥
योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः ।
सोयमात्मजमूष्माणं ग्रहाहस्तीव यच्छति ॥
नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥
सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।
अहमेकश्च संतप्तो माता च प्रतिबिन्ध्यतः ॥
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन ।
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥
नातः पापीयसी काचिदापद्राजन्भविष्यति ।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥
शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप ।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥
घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः ।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।
क्रूरान्निकृतिसंपन्नान्विहितानशमात्मकान् ॥
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः ।
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ॥
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ।
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम् ।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥
अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च ।
दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया ॥
बृहत्साल इवानूपे शाखापुष्पपलावान् ।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति ॥
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू ।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् ।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः ।
अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ॥
तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः ।
राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ॥
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः ।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान् ।
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ॥
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।
परिमाणएन तान्पश्य तावतः परिवत्सरान् ॥
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥
अथवाऽनडुहे राजन्साधने साधुवाहिने ।
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ॥
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ॥
इति श्रीमन्महाभारेत अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चस्त्रिंशोऽध्यायः ॥ 35 ॥
3-35-1 पतत्रिणा बाणवत् शीघ्रगामिना स्रोतसा नित्यवाहिना ॥ 3-35-2 प्रत्यक्षं प्रत्यक्षेण ज्ञातम् । कालबन्धनः कालवश्यः फेनधर्मा निःसारः ।
फलधर्मा पतनशीलः ॥ 3-35-3 सूच्येवाञ्जनचूर्णस्य । यथा
कज्जलक्षोदस्यातिश्लक्ष्णस्य सूक्ष्माग्रया सूच्यापि किंचिदपत्रीयते एवं
निमेषादपि यस्यायुरपचीयते स किमिति अवधिं प्रतिपालयेन्न कथमपीत्यध्याहृत्य
योज्यम् । सूच्येवाञ्जनचूर्णस्येति झ. पाठः ॥ 3-35-7 प्रसंख्यानं प्रकृष्ठां
साधुकीर्तिम् । यतः अस्पष्टः शौर्याद्यभावादितरैरविदितः । भूमिवर्धनः भूमिहिंसकः ।
भूमेर्भारभूत इत्यर्थः । अयातयित्वा अनिस्तीर्य । गौर्बलीवर्दइव । सोप्यशक्तश्चेत्
गोषु संख्यानं स्पष्टतां वाप्य प्राप्नुवन्भूमेर्भारभूतो भवति ॥ 3-35-8
दुर्जातशायिन इति क. पाठः ॥ 3-35-9 हैरण्यौ हिरण्यस्वामिनौ । श्रुतिः कीर्तिः ।
पार्थिवी पृथोः राज्ञ इवेत्यर्थः ॥ 3-35-10 निकर्तारं वञ्चकम् । अह्नाय सद्यः ॥ 3-35-12 आशये स्वस्थाने ॥ 3-35-15 प्रतिविन्ध्यतः प्तिविन्ध्यस्य माता
द्रौदी ॥ 3-35-19 अनुवाकः गुरूक्तिमनुवचनं तेन हता । अर्थज्ञानसून्यस्य ।
वेदाक्षरमात्राभ्यासिनः ॥ 3-35-20 घृणी दयालुः ॥ 3-35-22 आस्से
तूष्णींभूतोसि । पीठसर्पवत् अजगरवत् ॥ 3-35-23 संवर्तुं संवरीतुं छादितुम् ॥ 3-35-25 अनूपे बहुजे देशे ॥ 3-35-30 निकर्तव्यं नीयं सूचनादिकर्म कर्तव्यम् ॥ 3-35-34 अनडुहे पूर्णं घासमुपाहृत्यानृतान्मुच्यत इति धर्मशास्त्रोक्तं
प्रायश्चित्तं वा कर्तव्यमित्याहाथवेति । सौहित्यमातृप्तिभोजनम् ॥