अध्यायः 038

अर्जुनेन हिमवच्छिखरे तपश्चरणम् ॥ 1 ॥ पार्थतपोभीरुभिर्महर्षिभिः प्रार्थितेन महादेवेनाश्वासनपूर्वकमृषीणां प्रति निवर्तनम् ॥ 2 ॥

जनमेजय उवाच ।
भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः ।
विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ॥
कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः ।
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥
किंचानेन कृतंतत्रवसता ब्रह्मवित्तम ।
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ॥
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः । भवेन सह संग्रामं चकाराप्रतिमं किल ।
पुरा प्रहरतांश्रेष्ठः संग्रामेष्वपराजितः ॥
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।
शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥
यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद ॥
न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।
चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥
वैशंपायन उवाच ।
कथयिष्यामि ते तात कथामेतां महात्मनः ।
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥
गात्रसंस्पर्शसंबद्धां त्र्यम्बकेण महाहवे ।
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥
युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥
दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः ।
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ।
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ॥
त्वरया परया युक्तस्तपसे धृतनिश्चयः ।
वनं कण्टकितं घोरमेक एवान्वपद्यत ॥
नानापुष्पफलोपेतं नानापक्षिनिनादितम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥
ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम् ।
शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥
पुष्पवर्षं च सुमहन्निपपात महीतले ।
मेघजालं च सततं छादयामास सर्वतः ॥
सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः ।
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥
तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् ।
नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः ॥
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ॥
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥
दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः ।
शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ॥
पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः ।
द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ॥
तृतीयमपि मासं स क्रमेणाहारमाचरन् ।
चतुर्थे त्वथ संप्राप्ते मासे भरतसत्तमः ॥
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ॥
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ॥
नीलकण्ठं महादेवमभिवाद्य प्रणम्य च ।
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥
एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।
उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः ॥
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।
संतापयति नः सर्वानसौ साधु निवार्यताम् ॥
तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम् ।
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ॥
न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः ।
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ॥
अहमस्य विजानामि संकल्पं मनसि स्थितम् । नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।
यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः । प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ॥

इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

3-38-12 खङ्गं च कनकत्सरुं इति झ. पाठः । तत्र कनकत्सरुं स्वर्णमुष्टिंमित्यर्तः ॥ 3-38-13 ऐन्द्रिरर्जुनः ॥ 3-38-14 कण्टकितं कण्टकाक्रान्तम् ॥ 3-38-23 दर्भचीरं तृणमयं वासः । निवस्य परिधाय ॥ 3-38-24 द्विगुणेन षट्रात्रेण अत्ययात् अतिवाहितवान् ॥ 3-38-25 पक्षेणाहारमाचरन् इति झ. पाठः ॥ 3-38-26 निरालम्बो निराश्रयः ॥ 3-38-30 धूमापयन् धूमवतीरिव कुर्वन् ॥ 3-38-34 संकल्पं मनोरथम् ॥