अध्यायः 054
सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु रथयापनचोदना ॥ 1 ॥ तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः ॥ 2 ॥ द्रोणेन तत्कौशलश्लाघनम् ॥ 3 ॥
वैशंपायन उवाच । 
					तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
						उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥
					ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
						दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥
					त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
						संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥
					राजानं नात्र पश्यामि रथानीके व्यवस्थितम् ।
						दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ॥
					उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् ।
						गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥
					गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय ।
							यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
						
						तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥
						
						वैशंपायन उवाच । 
					इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
						सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥
					ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम् ।
						द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ॥
					द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत् ।
						ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ॥
					महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ।
							न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
						
						अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥
						
					एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते ।
						मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ॥
					आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥
						
					अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् ।
						रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥
					दारयन्निव तेजस्वी वसुधां वासवात्मजः ।
							एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः ।
						
					श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ॥
							इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ ।
						
					रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ॥
							इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः ।
						
					संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ॥
							चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः ।
						
					अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ॥
							निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् ।
						
					अभिवादयते पार्थः पूजयन्मामरिंदमः ॥
							अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः ।
						
					अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ॥
							द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च ।
						
					ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ॥
							रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी ।
						
					खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥ ॥
					इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥