अध्यायः 071
अर्जुनकुरुयुद्धदिदृक्षया समागतैर्देवैरर्जुनं श्लाघमानैः सद्भिः पुनः स्वर्गंप्रति गमनम् ॥ 1 ॥ उत्तरेण सवादिन्नगोषं पौरैः प्रत्युद्गम्यमानेन स्वनगरप्रवेशनम् ॥ 2 ॥
जनमेजय उवाच ।
युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा ।
किमकुर्वन्त ते पश्चात्कथयस्व ममानघ ॥
वैशंपायन उवाच ।
वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः ।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा ॥
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च ।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम् ॥
अस्त्राणामथ दिव्यानां प्रयोगानथ संग्रहान् ।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः ॥
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना ।
जितानन्यान्भूमिपालान्दृष्ट्वा जग्मुर्दिवौकसः ॥
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः ।
असङ्गतिना तेन विमानेनाशुगामिना ।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः ॥
[*कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः ।
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः ।
पार्थेनैकेन संग्रामे विस्मयो नो महानहो ॥
कस्मिन्मुहूर्ते संजातः कस्य धर्मस्य वा फलम् ॥
किमाश्चर्यं फल्गुनेऽस्मिन्यो रुद्रेण न्ययोधयत् ।
निवातकवचानाजौ यस्त्रिंशत्कोटिसंमितान् ॥
तस्य चैतत्किमाश्चर्यं स्तुवन्त इति ते सुराः ।
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः ॥]
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः ।
कुरूनभिमुखां याताः समग्रबलवाहनाः ॥
विराटनगराच्चैव गजाश्वरथसंकुलाः ।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः ॥
विराटप्रहिता सेना नगराच्छीघ्रयायिनी ।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम् ॥
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्चरथसंकुले ।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत ॥
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम् ।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत ॥
नगरे तुमुलः शब्दो रेणुश्चाक्रमते नभः ।
किंनु खल्वपयातास्ते कुरवो नगरं गताः ॥
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः ।
आमुञ्च कवचं वीर चोदयस्व च वाजिनः ।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति ॥
न तावत्तलनिर्घोषं गाण्डीवस्य च निस्वनम् ।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत् ॥
उत्तर उवाच ।
सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलंकृताः ।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः ॥
उत्तरामत्र पश्यामि सखीभिः परिवारिताम् ।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोश्वाश्च वर्मिताः ॥
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः ।
विराटवचनात्सर्वे संहृष्टाः प्रतिभान्ति मे ।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा ॥
वैशंपायन उवाच ।
ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु ।
परस्परममित्रघ्नं सस्वजे तं समागतम् ॥
जना ऊचुः ।
प्रीतिमान्पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः ।
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नलाः ।
दिष्ट्या संग्राममागम्य भयं तव न किंचन ॥
उत्तर उवाच ।
अजैषीदेष जाञ्जिष्णुः कुरूनेकरथो रणे ।
एतस्यक बाहुवीर्यं तद्येन गावो जिता मया ।
कुरवो निर्जिता यस्मात्सग्रामेऽमिततेजसः ॥
अकार्षीदेष तत्कर्म देवपुत्रोपमो युवा ।
एष तत्पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम् ।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत् ॥
वैशंपायन उवाच ।
उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम् ।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः ॥
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसंभृतैः ।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन् ॥
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः ।
संपूज्यमानो लोकेन नगरद्वारमागमत् ॥
भेर्यश्च तूर्याणि च वेणवश्च
विचित्रवेषाः प्रमदाजनाश्च ।
पुरो विराटस्य महाबलस्य
निष्क्रम्य भूमिंजयमभ्यनन्दनम् ॥
प्रशस्यमानस्तु जयेन तत्र
पुत्रो विराटस्य न हृष्यति स्म ।
संभाष्यमाणस्तु जयेन तत्र
सोऽन्तर्मनाः पाण्डवमीक्षमाणः ॥
पुत्र्यै विराटस्य ततो वराणि
वस्त्राण्यदात्पाण्डुसुतः सखीभ्यः ।
सभाजयंश्चापि समागतास्ता
दृष्ट्वा जयं तच्च बलं कुमार्यः ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः ॥
4-71-7 *इमे श्लोकाः थo पुस्तकमात्रे वर्तन्ते ।