अध्यायः 003

भीमेन युधिष्ठिरंप्रति स्वस्य सूदवेषपरिग्रहेण विराटभवने निवासकथनम् ॥ अर्जुनेन युधिष्ठिरंप्रति स्वेन नपुंसकवेषपरिग्रहेण राजकन्यानाटनादिकथनम् ॥

वैशंपायन उवाच ।
एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् ।
विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह ॥
भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि ।
हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने ॥
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात् ।
प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि ॥
बकं राक्षसराजानं भीषणं पुरुषादकम् । जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम ।
क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता ॥
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम् ।
त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम् ॥
आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी ।
जटासुरवधं कृत्वा वयं च परिमोक्षिताः ॥
मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः । वृकोदर विराटस्य बलीयान्दुर्बलीयसः ।
समीपे नगरे तस्य वत्स्यसे केन कर्मणा ॥
भीम उवाच ।
सूदोऽहं वललो नाम्ना सूपकारो नराधिप ।
उपस्थास्यामि राजानं विराटमिति रोचये ॥
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा ।
सूपांश्चापि करिष्यामि कुशलोस्मि महानसे ॥
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः ।
तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम् ॥
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् ।
स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति ॥
आहरिष्यामि दारूणां पाटितानां शतंशतम् ।
राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति ॥
ये च तस्य महामल्लाः समरेष्वपराजिताः ।
कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले ॥
रङ्गोपजीविनः सर्वे परेषां च भयावहाः ।
तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन् ॥
न च तान्युध्यमानोऽहं नयिष्ये यमसादनम् ।
तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः ॥
वृषो वा महिषो वापि नागो वा षाष्टिहायनः ।
सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः ॥
तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान् ।
बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः ॥
आरालिका वा सूदा वा येऽस्य युक्ता महानसे ।
तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा ॥
आरालिको गोविकर्ता सूपकर्ता नियोधकः ।
आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान् ॥
आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते । इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा ।
विराटनगरे च्छन्नो विराटस्य समीपतः ॥
युधिष्ठिर उवाच ।
अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत ।
महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे ॥
संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह । तस्मै ब्राह्मणरूपाय हुताशाय महायशाः ।
विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत् ।
स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति ॥
आशीविषसमस्पर्शो नागानामिव वासुकिः ।
दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव ॥
समुद्र इव सिन्धूनां शैलानां हिमवानिव ।
महेन्द्र इव देवानां दानवानां बलिर्यथा ॥
सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा ।
कुबेर इव यक्षाणां मृगाणां केसरी यथा ॥
राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः ।
रुद्राणामिव कापाली विष्णुर्बलवतामिव ॥
रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः ।
वायुवेगबलोद्धृतो गरुडः पततामिव ॥
तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा ।
ह्रदानामिव पातालं पर्जन्यो नर्दतामिव ॥
आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः ।
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा ॥
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा । गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः ।
ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा ॥
यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर ।
एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥
सोयमिन्द्रादनवमो वासुदेवाच्च भारत । उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि ।
ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः ॥
अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः ।
क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः ॥
अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम् ।
धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च ॥
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् ।
वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः ॥
यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ । दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा ।
तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ ।
पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ ॥
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ।
गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः ॥
किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः । बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः ।
कुन्तीपुत्रो विराटस्य रमते केन कर्मणा ॥
अर्जुन उवाच ।
इमौ किणीकृतौ बाहू ज्याघाततलपीडनात् ।
नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे ॥
किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम् ॥
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ ।
ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे ॥
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके ।
वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला ॥
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः । प्रजानां समुदाचारं बहुनर्मकृतं वदन् ।
रमयिष्यामि राजानमन्यं चान्तःपुरे जनम् ॥
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा ।
शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः ॥
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः ।
छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना ॥
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका ।
उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता ॥
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम् । शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात् ।
इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥
एतेन विधिना छन्नः कृतकेन यथा नलः ।
विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम् ॥
युधिष्ठिर उवाच ।
वासुदेवसमो लोके यशसा विक्रमेण च ।
सोयं राज्ये विराटस्य भवने भरतर्षभः ॥
मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना ।
आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि तृतीयोऽध्यायः ॥